पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। श्रोत्रपात्रीकृता यस्य वार्तापीयमनुत्तरा । निषिञ्चत्यन्तरात्मानमश्रान्तममृतैरिव ॥ २१३ ॥ विश्वभद्रंकरः स स्याद्यदि साक्षादवेक्षितः। श्रेयःसंवलितानन्दमयं नस्तज्जगद्भवेत् ॥ २१॥ (युग्मम्) तन्नैवाभूदभाग्यैर्नस्तावत्संप्रति तु प्रभोः । श्रीनेमिखामिपादारविन्दं वन्दामहे यदि ॥ २१५॥ तद्भवत्येव नः सर्वपाप्मभ्यः सलिलाञ्जलिः । बिभर्ति कृतकृत्यत्वं व्रतग्रहणमप्यदः ॥ २१६ ॥ (युग्मम्) किंतु त्रिजगदम्भोजस्मेरणधुमणिः प्रभुः। क्वाधुना विहरत्येवं विद्मः किमपि नो वयम् ॥ २१७ ॥ इत्युक्ते सूनुभिः पाण्डोर्धर्मघोषमुनीश्वरः । जनालोकमहेनाह्ना साक्षात्कृतजगज्जगौ ॥ २१८॥ आर्यानार्येषु देशेषु मध्यदेशादिषु मात् । विहृत्य हीमदाद्येषु भूघरेष्वप्यनेकशः॥ २१९ ॥ मार्तण्ड इव राजीवखण्डान्निशि निमीलितान् । मोहव्यामोहितांस्तांस्तान्प्राणिनः प्रतिबोध्य च ॥ २२० ॥ ज्ञात्वा नेदीयसीमात्मनिर्वृतिं भुवनप्रभुः । गिरिं रैवतकं नाम नन्वलंकुरुतेऽधुना ॥ २२१ ।। (त्रिभिर्विशेषकम्) इत्यस्य गिरमाकर्ण्य विक्लवोत्सुकचेतसः। स्वामिसंगमसोत्कण्ठा जजल्पुः पाण्डसूनवः ॥ २२२ ॥ ननु त्वरितमद्यैव तर्हि प्रस्थीयतां प्रभो। दर्श्यतां नः पुरोभूय पादास्तस्य जगत्पतेः ॥ २२३ ॥ मा स्म निर्भाग्यधौरेयाः पुरस्तादेव तं विभुम् । निर्वाणपदवी प्राप्त..."वन्दिष्यामहे वयम् ॥ २२४ ॥ पुरस्कृत्येति तं वेगान्मुनिं रैवतकं प्रति । श्रीमन्नेमिजिनं नन्तुं पाण्डवेयाः प्रतस्थिरे ।। २२५ ॥