पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ततोऽङ्गाधारमात्रीयप्रान्ताहारेच्छुरप्यहम् । न भावस्खलनं किंचित्करिष्येऽस्य विवेकिनः ॥ २० ॥ ततो राममुनिर्भैक्ष्यमादातुमुपचक्रमे । दातुं च रथकृद्वर्गग्रामणीर्मुदिताशयः ॥ २०१॥ तावुभावपि संवीक्ष्य दातृपात्रशिरोमणी । सकुरङ्गोऽपि संवेगभावनामित्यभावयत् ।। २०२ ॥ अहो धन्योऽयमेवाद्य ग्रामणीर्विपिनच्छिदाम् । यस्य प्रादुरभूत्पुण्यप्राग्भारोऽयमचिन्तितः ।। २०३ ।। मुनिभ्यो दत्तमीदृग्भ्योऽन्यदापि शिवसंपदे । किं पुनस्तद्यदेतसिन्मासक्षपणपारणे ॥ २० ॥ अहं तु न तपः किंचित्कर्तुमल्पमपि क्षमः । छिद्यन्ते कर्मणां मर्मग्रन्थयो येन तत्क्षणात् ।। २०५॥ न चैतादृग्विधं किंचिद्दानं दातुमपीश्वरः। हा हतोऽहमिदं जन्म धिङ्मे तिर्यक्त्वपांसुरम् ।। २०६॥ इत्यमीषां पर कोटिमीयुषां भावसंपदः। उपरिष्टात्पपातार्द्धच्छिन्नो वात्याहतस्तरुः ॥ २०७॥ तन्निपाताभिघातेन ते त्रयोऽपि गतासवः । कल्पे ब्रह्माभिधेऽभूवन्नमरास्तुल्यसंपदः ॥२०८॥ तिर्यङ्गरामरानित्थं प्रतिस्थान प्रबोधयन् । बभार व्रतपर्यायं सीरभूद्वत्सरान् शतम् ॥ २०९॥ तत्प्रभृत्यनुभावेन मुनर्लाङ्गललक्ष्मणः । इदं शान्ताखिलक्रूरश्वापदं समभूदनम् ॥ २१० ।। इत्याकर्ण्य कथां तस्य धर्मघोषमुनेर्मुखात् । विषादकलुषात्मानः पाण्डवेया बभाषिरे ।। २.११.॥ ईदृगद्वैतचारित्रपवित्रात्मा बलो मुनिः। हा विगस्माभिरत्यन्तं भाग्यवन्ध्यैर्न वन्दितः ॥ २१२ ॥