पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। । भ्राम्यन्नेणः स तान्वीक्ष्य मांसक्षपणपारणम् । विधातुमनसो राममुनयेऽज्ञापय द्रुतम् ॥ १८७ ॥ तेनाग्रगामिना सोऽपि निराकाङ्क्षमना मुनिः। ईर्ष्याचतुरचक्षुस्तानुत्ससर्प वनच्छिदः ॥ १८८ ॥ छेदं छेदं वनं सारान् तेऽपि मध्यंदिने तदा । नानारसवतीपाकाः समगच्छन्त मुक्तये ॥ १८९ ॥ धर्मं साक्षादिवायान्तं दूरादालोक्य तं मुनिम् । सानन्दो रथकाराणामग्रणीरित्यचिन्तयत् ॥ १९० ।। धवादिशाखिनामेव स्थानेऽस्मिन्विपिने कथम् । कल्पद्रवोऽपि दृश्यन्ते भाग्यं नस्तदहो महत् ॥ १९१ ॥ ऐहिकश्रीफलाः कामं तेऽपि कल्पद्रवोऽथवा । एते तु मुनयः स्वर्गापवर्गकमलाफलाः ।। १९२ ॥ तदद्य खलु धन्योऽस्मि तुल्यमद्यैव जन्म मे । जातं सफलमद्यैव वनागमनमप्यदः ॥ १९३ ॥ इत्यादि चिन्तयन्नन्तरुन्मीलत्पुलकाङ्कुरः। अभ्युच्छ्राय स भून्यस्तमौलिस्तं मुनिमानमत् ॥ १९४ ॥ प्रासुकैरेषणीयैश्च तैस्तैरानन्दितेन्द्रियैः । पीनप्रीतिः सपानान्नैरुपतस्थे बलं मुनिम् ॥ १९५ ॥ तन्मनोवृत्तिमालोक्य श्रद्धातिशयबन्धुराम् । रौहिणेयमुनिश्चित्ते चिन्तयामासिवानिति ॥ १९६ ॥ अहो महात्मनोऽमुण्य भावः कोऽप्येष निस्तुषः । एवमानन्दवैक्लव्यमिदानीं यद्दधात्यसौ ॥ १९७ ॥ तनोति कृतिनां भाग्यं भावस्तात्कालिकोऽपि यत् । मूलादुन्मूल्यते तेषां तेनैव भवभूरुहः ॥ १९८ ॥ तन्महात्मायमारूढस्तसिन्भावेऽथ संप्रति । यस्मिन्करप्रदेयानि मन्ये मुक्तिसुखान्यपि ॥ १९ ॥