पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ७०५ तावत्सिद्धार्थदेवेन नित्यं रामोपसेविना । सिंहाः फालक्रियोत्ताला विकीर्यन्ते स्म कोटिशः ॥ १७ ॥ तैश्च वित्रासिताशेषसैनिकास्तेऽवनीभुजः । तत्क्षणक्षुमितखान्ता न्यवर्तन्त प्रणम्य तम् ॥ १७५ ॥ तदा प्रभृति निःसीमशमैकनिरतेरपि । रामस्य भुवने नाम नृसिंह इव पप्रथे ॥ १७६ ॥ पश्यतोऽथ शमं तस्य शीतांशुपरिभाविनम् । लक्षयन्तोऽपरिक्षामां भूतग्रामे दयार्द्रताम् ॥ १७७ ॥ विन्दानाः समपिण्याकहिरण्यां च निरीहताम् । शृण्वानाश्च गिरं धर्ममयीममृतजित्वरीम् ॥ १७८ ॥ क्रूरा अप्युज्झितक्रौर्याः शमैकमयचेतसः । सर्वेऽप्यन वने वन्याः प्रत्यबुध्यन्त जन्तवः ॥ १७९ ॥ (त्रिभिर्विशेषकम्) सम्यक्तं जगृहुः केचित्ते देशविरतिं परे । अन्ये च भद्रकीभूय पापकर्माणि तत्यजुः ॥ १८०॥ चक्रिरेऽनशनं केचित्कायोत्सर्गं व्यधुः परे । शिष्या इवान्ये रामर्षेरासन्नासन्नसेविनः ॥ १८१ ॥ कश्चित्तु प्राग्भवप्रीतिभावाज्जातिस्मरो मृगः। कल्याणभक्तिरश्रान्तमुपासामास तं मुनिम् ।। १८२।। भ्रान्त्वा भ्रान्त्वा च सोऽजस्रं सार्थमावासितं बने । गृहीतान्नांश्च काष्ठादिहारकानगवेषयत् ॥ १८३ ॥ यदा नैक्षिष्ट तान् क्वापि तदैवागत्य सत्वरम् । संकेतैः प्रणिपाताद्यैः स रामर्षिमजिज्ञपत् ॥ १८ ॥ पारयित्वा ततो ध्यानं रामस्तस्यानुरोधतः । तद्दर्शितपथो भैक्ष्यं सार्थादिभ्योऽग्रहीत्तदा ॥ १८५॥ हार्म्याद्यर्माणि साराणि काष्ठान्याहर्तुमन्यदा । रथकारास्तदाभ्येयुर्भूयांसः काननोदरम् ।। १८६॥ ८९