पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। उपास्यमानः सिद्धार्थदेवेनाद्भुतभक्तिना। मासक्षपणमातेने सानुन्यस्य स धीरधीः ॥ १६१॥ पर्यन्ते तपसोऽमुष्य स पाराणकहेतवे । पुरे कस्मिंश्चिदासन्ने विवेश वशितेन्द्रियः ।। १६२ ।। विशन्स्वरूपलावण्यपुण्यमूर्तिः कयाप्यसौ । कूपकण्ठस्थाया दृष्टः समीपस्थार्पितार्भया ।। १६३ ।। रूपाक्षिप्ता गले बद्धा रज्जु कुम्भधियाऽथ सा । कूपे प्रक्षेप्तुमारेभे तं बालं वलितानना ॥ १६४ ।। तद्विलोक्य मुनिर्वेगादागत्य प्रतिबोध्य ताम् । निन्दव्यामोहिनीरूपसंपदं स्वां न्यवर्तत ॥ १६५ ॥ जग्राहाभिग्रहं चेति वने काष्ठादिहारिभिः । दत्तेनान्नादिनावश्यं पारयिष्यामि नान्यथा ॥ १६६ ॥ ततः प्रभृति तेनैव विधिना कृतपारणः । तप्यमानस्तपोऽत्युग्रं सोऽथ तत्रैव-कानने ॥ १६७ ॥ तमनैदयुगीनाङ्गाभोगमुद्दामतेजसम् । .. ते विलोक्य तपस्यन्तं तृणकाष्ठादिहारिणः ॥ १.६८ ॥ गत्वा खखनरेन्द्रेभ्यः शशंसुरतिविस्मिताः । अधृष्यश्रीर्वने कश्चित्तपस्यति पुमानिति ।। १६९ ।। (युग्मम् भीतान्तःकरणास्तेऽपि भूभुजस्तुच्छचेतसः । खतुल्यकलिताशेषजगतोऽन्तरचिन्तयन् ॥ १७०॥ नूनमन्यूनमाहात्म्यतपःपल्लवितोर्जितः । कोऽप्यसावस्मदीयानि राज्यान्याच्छेतुमिच्छति ।। १७१॥ तत्संप्रत्येव तं हन्म इत्यालोच्य महीभुजः । सर्वे सर्वाभिसारेण तं अगित्यभ्यषेणयन् ॥ १७२ ॥ ततः पादातिकाश्चीयरथ्यहास्तिकशालिनः । अभ्येत्यास्मिन्वने यावत्ते रामं परितः स्थिताः ॥ १७३ ।।