पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । अथ नित्यविहारेण विहरन्तोऽवनीतले । कदाचिदपि ते जग्मुम्तुङ्गीं शैलान्तिकक्षितिम् ॥ १४८ ॥ धर्मघोषगुरुं तस्य शैलस्योपत्यकाबने । ते जनादागतं श्रुत्वा वन्दितुं मुदिता ययुः ।। १४९ ।। अद्राक्षुश्च गुरुं द्राक्षापाकपेशलया गिरा। दिशन्तं विशदं धर्म तिर्यस्पर्त्यदिवौकसाम् ॥ १५० ॥ दूरादालोक्य तान्सोऽपि गुरुः प्रीतितरद्गितः । प्रत्युद्याति सम विसेरः संभ्रमादुप्रिनाशनः ॥ १५१ ॥ आनन्दाश्रुकणाकीर्णपक्ष्माणो रोमहर्षिणः । ते पदाम्भोरुहक्षिप्तमालयस्तं ववन्दिरे ॥ १५२ ॥ तानुत्थाप्य करे धृत्वा प्रीतिगद्गदया गिरा। विकस्वरकपोलाक्षः पप्रच्छ स्वागतं गुरुः ॥ १५३ ॥ पुनरासनमासीने गुरौ तेऽभ्यर्णभृतले । वन्दिताः परिषद्देवनृतिर्यग्भिरुपाविशन् ॥ १५४ ॥ पुण्यार्जनकृते सर्वसदस्यानां विशेषतः । तत्तपःप्रौटिमुद्दिश्य वितेने देशनां विभुः ।। १५५ ॥ देशनान्तेऽखिलश्रेयःसंभारात्मंभरिर्जनः । प्रणम्य तं विभु तांश्च ययौ स्थानं निजं निजम् ॥ १५६ ॥ विस्मेरमनसोऽत्यन्तमथैते गुरुमभ्यधुः । करिष्यन्ते पराः सर्वाः वार्ताः पश्चादपि प्रभो ।। १५७ ।। कथ्यतां तावदेतन्नो यदारण्याः शरीरिणः । क्रूरा अप्यत्र दृश्यन्ते शमसंवेगशालिनः ।। १५८ ॥ तद्यौष्माकागमस्यैवानुभावोऽयं किमद्भुतः । किं चात्र किंचिदप्यस्य जृम्भते कारणान्तरम् ।। १५९ ॥ ततोऽभाषिष्ट भगवान्पुरग्रामादिषु क्रमात् । विहरन्नप्यगात्पूर्वं शैलेऽस्मिन्मुशली मुनिः ॥ १६० ॥