पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यथा यथारिषड्वर्गनिमहेऽभूदरंतुदः । तथा तथा दधौ चित्रं भीमः कायमभीषणम् ॥ १३५ ॥ भीमोऽन्तर्विद्विषः क्षान्तिगदयादलयत्तथा । यथा नामापि नाश्रीषीदेष तेषां पुनः क्वचित् ॥ १३६ ॥ अर्जुनस्य मुनेजर्जीयात्तपो गाण्डीवताण्डवम् । येन जैनगवीवर्गः सूत्रितो निरुपद्वः ॥ १३७ ॥ विधाय समताराधावेधं प्रशमपत्रिणा । पार्थः पाणौ करोति परमानन्दसंपदम् ॥ १३८ ॥ ध्यानवैश्वानरः पार्थमुनेरजनि कोऽप्यसौ । यस्य क्रोधाग्निरेवाभूदिन्धनं प्रज्वलिष्यतः ॥ १३९ ॥ नकुलस्य तपोऽम्भोधेनिर्गतं यच्छमामृतम् । श्रीयन्ते स्म सुरास्तेन तत्किं नामात्र कौतुकम् ॥ १४० ॥ मन्ये मुनिषु सर्वेषु सहदेवोऽधिदैवतम् । तपस्तरणिना यस्य ज्ञानेन्दुरुपजीवितः ॥ १४१ ॥ जीयते स्म पुरा पाण्डुसूनुभिर्द्विषतां शतम् । तत्तदा जेतुमीषेऽष्टाचत्वारिंशं तु कर्मणाम् ॥ १४२ ॥ ततो भीममुनि ममित्यभिग्रहमग्रहीत् । कुन्ताप्रदत्तमेवोच्छमादास्ये नान्यथा पुनः ॥ १४३ ।। तस्य पुण्यात्मनः सोऽपि मासैः षड्भिरपूर्यत । न किंचिदतिदुर्लभं सत्त्वनिर्णिक्तचेतसाम् ॥ १४ ॥ प्रतिस्थानं प्रतिग्रामं प्रत्यध्व प्रतिकाननम् । जनं धर्ममयैस्तैस्तैर्वचोभिरुपकुर्वताम् ॥ १४५ ॥ एवं तेषां तपस्तत्तन्महाभिग्रहदुस्तरम् । कुर्वतां खर्वतां नित्यं नयतां कर्मसंहतिम् ॥ १४६ ॥ स्वदेहेऽपि निरीहाणामविरामविहारिणाम् । हायनान्यतिभूयांसि व्यतीयुः पाण्डुजन्मनाम् ॥ १४७ ।। (त्रिभिर्विशेषकम् )