पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । तान्प्रणम्य ततः सर्वः पौरामात्यादिकोजनः । मन्दं मन्दं 'प्रयाति स्म श्रेयःसंभारनिर्भरः ॥ १२२ ॥ तेऽप्यभ्यासे गुरोस्तं तमभ्यस्यन्तः क्रियाक्रमम् ।। निरीहाः स्वशरीरेऽपि व्यहरन्नन्यतोऽन्यतः ॥ १२३ ॥ अथोन्मीलन्मनोभावपरिचारकलालिताः। नित्यं प्रथमपीयूषपानपीयूषशालिनः ॥ १२४ ॥ वाचमिन्द्रियखिङ्गानामशृण्वन्तो मनागपि । त्यजन्तो दूरतः काममालस्यादीनसूयकान् ।। १२५ ॥ आननेन्दुमपश्यन्तो जातु निद्रामृगीदृशः । क्रमेण द्वादशाझ्यान्ते समभूवन्नधीतिनः ॥ १२६ ॥ (त्रिभिर्विशेषकम् ) इत्याप्तश्रुतसंस्कारा दधुर्गीतार्थताममी । रसेऽथ संस्कृता लोहधातवो हेमतामिव ॥ १२७ ॥ याज्ञसेन्यप्युपासीना प्रवर्तिन्याः पदाम्बुजम् । तपोज्ञानविवेकानां परां कोटिमशिश्रियत् ।। १२८ ॥ ततः कदाप्यनुज्ञाप्य धर्मघोषमुनीश्वरम् । ते पृथग्विहरन्ति स्म हरन्तो विश्वकल्मषम् ॥ १२९ ॥ तप्यन्ते स तपस्तेऽभिग्रहोदग्रं पृथक्पृथक् । येन स्वं पवितुं शङ्के साप्यैच्छन्मुक्तिकामिनी ॥ १३० ।। संभाव्य सुभटं शत्रुजित्वरं निजमात्मजम् । मोहदुर्विषहोत्साहः श्रीमान्धर्मः किमप्यभूत् ॥ १३१ ॥ धर्मसूतेः सदा शान्तिहिमानीमहिमोदयः। जगत्यपि महामोहग्रीष्मारम्भं वृथाकरोत् ।। १३२ ॥ धावन्तो विद्विषः स्वान्तःपुरमादातुमन्तरा । के नामज्जंस्तपःसूनोः प्रशान्तिपरिखाम्भसि ।। १३३ ॥ भीमस्याभूद्यथा सत्त्वं दुर्लङ्घमरिभिः पुरा । संप्रत्यपि तथैवासीदान्तरैः परिपन्थिभिः ।। १३४ ।।