पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७०० काव्यमाला किमन्यत्ते तथावर्षन्सर्वतः कनकोत्करैः। लुम्पन्ति स्म यथा नामाप्युत्तमर्णाधमर्णयोः ॥ १०९ ॥ कुञ्जरेन्द्रानथारूढाः सुरसिन्धुरबान्धवान् । तदात्वोचितमाणिक्यमौक्तिकाकल्पशालिनः ॥ ११०॥ उद्भूतचामरैः साक्षादप्सरोनिकरैरिव । वृताः शृङ्गारसंभारसारैराङ्गनागणैः ॥ १११ ।। सपोरैः सपरीवारैः सामन्तामात्यमत्रिभिः । अन्वीयमाना ससुरैरिव सामानिकामरैः ॥ ११२ ॥ लोकपाला इवाध्यक्षाः पञ्चाप्युद्दामदीप्तयः । कराग्रप्रेङ्खितै रत्नैः प्रीणयन्तोऽर्थिमण्डलम् ॥ ११३ ॥ तन्मार्गानुगमप्रौढतृष्णया कृष्णयान्विताः । ऊरीकर्तुं परिव्रज्या प्रचेलुः पाण्डुसूनवः ।। ११४ ॥ (पञ्चभिः कुलकम्) स नेत्राश्रुकणान् लाजकणान्पौरमृगीदृशाम् । पाण्डवेयाः प्रतीच्छन्तो बाह्योद्यानमुपाययुः॥ ११५॥ तत्रोत्तीर्यगजेन्द्रेभ्यो राजचिन्हान्यपास्य ते । सपत्नीकाः प्रभु धर्मघोषाख्यमुपतस्थिरे ॥ ११६ ॥ विज्ञा व्यज्ञापयन्नैनं ते निपत्य पदाम्बुजे । शिरो नः पावय खामिन्दीक्षादानात्खपाणिना ॥ ११७ ॥ भूत्वा भगवतो नेमेस्ततः सप्रतिहस्तकः । दक्षिणो दीक्षयामास मुनिः सप्रेयसीनमून् ॥ ११८ ॥ तदङ्गेषु तदा हर्षान्निर्गच्छत्पुलकच्छलात् । । दृश्यन्ते स्म प्रणश्यन्ति कल्माषाणीव सर्वतः ॥ ११९ ॥ तेषां भावारघट्टोऽन्तर्वहति स तदा तथा । सिक्ताः पुण्यद्रुमाः कामं यथानन्दाश्रुकुल्यया ॥ १२० ॥ द्रोपद्यात्तव्रता तेषां पञ्चानामनुगा बभौ । महावतानां मूर्तानामिव मूर्तिमती क्रिया ।। १२१॥