पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । अध्यक्ष तत्सपर्याभिरश्रान्तं कृतार्थमन्यमानसः । सिद्धार्थदेवश्छायेव तस्याभ्यर्णचरोऽभवत् ॥ ९६ ॥ एकतो भगवान्नेमिरन्यतश्च स धीरधीः । मेदिनीमुपकुर्वाते सूर्याचन्द्रमसाविव ।। ९७ ॥ तत्तयोर्बन्धवो मार्गमाश्रित्याशु तदाश्रितम् । निरीहमनसो यूयमप्येवं कर्तुमर्हथ ॥ ९८ ॥ एकैव सन्मणीनां हि लोकालंकारणं गतिः । ध्वान्तध्वंसादृते कृत्यं प्रदीपानां च नापरम् ।। ९९ ॥ द्विषः क्षिप्ताः कृतं राज्यं भुक्तमप्रतिमं सुखम् । किंचिद्वस्तन्न संसारे यदद्याप्यवशिष्यते ॥ १० ॥ केवलं तत्सुखाद्वैतं मुक्तेर्भोक्तव्यमस्ति वः । तद्दातरि व्रते तस्मात्कालक्षेपो नहि क्षमः ।। १०१ ।। इत्युच्चैर्विहितोत्साहा धर्मघोषगुरोर्गिरा । संसारं झगिति त्यक्तुमैषिषुः पाण्डुसूनवः ॥ १०२ ॥ ते ततःसहसोत्थाय तमानम्य मुनीश्वरम् । उत्तरङ्गितसंवेगाः प्राविशन्नगरीं पुनः ॥ १०३ ।। ते मुहूर्ते शुभे कृष्णप्रीतेरानृण्यमिच्छवः । चक्रुर्जराङ्गजन्मानं स्वराज्यस्याधिदैवतम् ॥ १०४ ।। ते रुद्धान्यवरोद्धव्यैः कारागाराण्यशोधयन् । आत्मानं पुनराकीर्ण दुष्कर्मपरमाणुभिः ॥ १०५ ॥ दीनानां ते हिरण्याद्यैर्दौर्गत्यमुदमूलयन् । आत्मनस्तु बृहन्मूलं संसारविषशाखिनम् ॥ १०६ ॥ जीर्णभ्रष्टानि ते विश्वे चैत्यान्युद्दधुरर्हताम् । गम्भीरात्पुनरात्मानं दुर्गत्याख्यान्धकूपतः ॥ १०७ ॥ अमेयानि वमन्ति स्म सप्तक्षेत्र्यां धनानि ते । मुक्तिर्येषामशेषाणामेकमेवाभवत्फलम् ।। १०८॥