पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६९८... काव्यमाला। श्रेयःपीयूषवर्षैकपावृषं तत्पदान्तिके । दीक्षामादाय शाश्वत्यामुद्यच्छस्व सुखश्रियम् ॥ ८३ ॥ तथेति प्रतिपदानस्तद्गिरं सीरभृत्ततः। तत्समेतो मुरारातेरग्निकर्मादि निर्ममे ॥ ८४ ॥ ततोऽसौ यावदत्यन्तं संयमोत्सुकमानसम् । लाङ्गली तावदद्राक्षीविद्याधरमृषिं पुरः॥ ८५॥ प्रत्युद्गम्य प्रणम्याथ रोहिणीतनयः क्षणात् । पप्रच्छ स्वागतं हर्षबद्धोत्कर्षं महामुनिम् ॥ ८६ ॥ मुनिरप्यंभ्यधाद्भद्र विश्वभद्रकरः प्रभुः । श्रीमन्नेमिर्द्रुतं ज्ञातत्वन्मनाः प्रजिधाय माम् ॥ ८७ ॥ तत्कुरुष्व मनोऽभीष्टं पुष्टये पुण्यसंपदाम् । कालोऽयमेव दुष्कर्मश्रेणिमर्मच्छिदे तव ॥ ८ ॥ इत्युत्साहायमानीतो नभश्चरमुनेगिरा। प्रपेदे सर्वसावद्यविरति सीरभृत्क्षणात् ।। ८९ ॥ जवाद्यतिरहस्यानां जज्ञे विज्ञश्च तत्क्षणात् । भूयान्न खलु संस्कारो जात्यरत्नैरपेक्ष्यते ॥ ९०॥ सांप्रतं च तपःकर्म कुर्वन्षष्ठाष्टमादिकम् । तुल्यान्तःकरणाकारो लोष्टेऽप्यष्टापदेऽपि वा ॥ ९१ ॥ शमाद्वैतसुधाकुण्डस्नानशौण्डमनाः सदा । तानप्यतिहि मन्वानो नाकिनः क्लेशपाकिनः ॥ १२ ॥ वैरङ्गिकः शरीरेऽपि जीवितव्येऽप्यरागवान् । अरिष्वपि निरातङ्को निःशङ्को विपिनेष्वपि ॥ ९३ ।। धर्मामृतमयैः शान्तैस्तैस्तैर्वचनवीचिभिः । तत्र तत्र जनांस्तांस्तानुपकुर्वन्नखर्वधीः ।। ९४ ॥ अरण्यनगरग्रामकर्बटेषु समीरवत् । स्वैरमप्रतिबद्धात्मा विहरस्येककुण्डलः ॥ ९५॥ (पञ्चभिः कुलकर)