पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । यावदित्याप्तचैतन्यः किंचिच्चलति लाङ्गली। तावदुद्योतिताशान्तः कश्चिदस्थात् पुरः सरः ॥ ७० ॥ सोऽब्रवीत्सीरिणं सोऽहं सिद्धार्थः सारथिस्तव । प्रभावात्तपसस्तस्य देवभूयमुपागमम् ।। ७१ ।। स्मरस्येतत्परित्रज्याकाले मामर्थयिष्यसे । यन्मामभ्युद्धरेर्जातु पतन्तं व्यसनार्णवे ।। ७२ ॥ तत्त्वामिदानीमालोक्य मोहनिद्राविसंस्थुलम् । प्रबोधयितुमभ्यागां तां तवाभ्यर्थनां स्मरन् ।। ७३ ॥ श्रीनेमिना पुरा मृत्युर्मुरारातेर्जरामुतात् । यदूचे तत्तथैवाभूदन्यथा नार्हतां गिरः ।। ७४ ॥ एतान्यश्मरथादीनि वैकृतानि कियन्त्यपि । भ्रातमोहव्यपोहाय दर्शितानि मयैव ते ।। ७५ ॥ विमुच्य तमिमं मोहं संदोहं दुःखसंपदाम् । आत्मनीनं महत्किचित्कर्म निर्मीयतां त्वया ।। ७६ ।। बन्धवः खल्ववाप्यन्ते जीवैर्जन्मनि जन्मनि । किं तु ते मोहसैन्यैककेतवो भवहेतवः ॥ ७७ ।। जीवाः सर्वे हहा बन्धुसंहतिहमोहिताः । दुःखप्लोषक्षमे कर्मण्युत्सहन्ते न जातुचित् ।। ७८ ॥ बन्धुस्नेहोऽन्तरम्भोधिरेष्यतीनां सुखश्रियाम् । दुःखश्रेण्याश्च विश्रामधाम तद्विधुनीहि तम् ॥ ७९ ॥ इति सिद्धार्थदेवोक्तां गिरमाकर्ण्य लाङ्गली । जल्पति स त्वया बन्धो साधु साध्वस्मि बोधितः ।। ८० ॥ किं तु मे कथय भ्रातर्भ्रातुरस्य मुरद्विषः। मृत्युनात्यन्तदुःखार्तः प्रवर्ते क्वात्मनो हिते ।। ८१ ॥ देवोऽभ्यधान्ननु भ्रातस्त्रिलोकीकल्पपादपः । अस्त्येव भगवान्नेमिर्दुःखार्तानामरुतुदः ॥ ८२ ॥