पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । सोऽयं चेद्विश्वजीवातू जीविता तव बान्धवः । खण्डशस्तद्गतोऽप्येष प्रगुणीभविता रथः ।। ५७ ॥ क्व मे बन्धुर्मृतोऽस्तीति कामं सासूयमानसः । तं मुहुः कुटिलं पश्यन्नचालील्लाङ्गली पुरः॥ ५८ ॥ रोपयन्तं निरूप्याथ शिलायां नलिनीं क्वचित् । सारम्भमभ्यधात्कंचिदुचैः शब्दं हसन्हली ॥ ५९ ॥ व्यामूढात्मन्किमेतस्मिन्नत्यन्तकठिनेऽश्मनि । सहसैरपि यत्नानां प्ररोहति सरोजिनी ॥ ६०॥ सोऽप्यवादीत्तवायं चेत्प्राणिष्यति सहोदरः । पाषाणे तत्स्वरेऽप्यस्मिन्प्ररोक्ष्यत्यरविन्दिनी ॥ ६१ ॥ इत्येतस्यापि भारत्यामवज्ञाविवशाशयः । व्यक्तोत्पासस्सितस्मेरश्चचाल मुसली पुरः ॥ ६२ ॥ ततो दावाग्निनिर्दग्धं सिश्चन्तमवनीरुहम् । कंचिदारामिकं रामः पश्यति स्म व्रजन्पुरः ॥ ६३ ॥ तं चाभ्यधाद्धिगेतां ते हन्त दुर्व्यवसायिताम् । मुञ्चन्ति जातुचिद्दग्धभूरुहोऽपि किमङ्कुरान् ॥ ६ ॥ स जगाद यदि स्कन्धशवो वार्तयिता त्वया । शादलीभविता भूयस्तदायमपि पादपः ॥ ६५ ॥ तामश्रुत्वेव तद्वाचमुच्चचाल हली पुरः । दूर्वाश्च गोशवास्येषु क्षिपन्तं कंचिदैक्षत ॥ ६६ ॥ तमप्यभिदधे गावः कथमेताः परासवः । दूर्वाः कवलयिष्यन्ति गताः कङ्कालशेषताम् ।। ६७ ॥ तेनाप्यूचे बलः पद्भ्यां गन्ता चेदेष संस्थितः । चरितारस्तदा गावोऽप्यमूर्दूर्वाङ्करानिमान् ॥ ६८ ॥ रामोऽथाचिन्तयत्सत्यं किं मृतोऽयं ममानुजः । वदन्ति यदमी सर्वेऽप्येकरूपमिदं वचः ॥ ६९॥