पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६९५ रोषं मयि पुराकार्षीः सागस्यपि न जातुचित् । इदानीं तु विनाप्यागः केयं ते दीर्घरोपिता ॥ १४ ॥ हा दैव यद्ययं नेतुं चिन्तितोऽभूद्दशामिमाम् । तत्त्वया किं कृतो विश्वमौलिलालितशासनः ॥ १५॥ यद्वा ज्ञातं नितान्तं यं विडम्बयितुमीहसे । तस्य कन्दलयस्येवमतीव महतीः श्रियः ॥ ४६ ॥ एतैर्वा किमुपालम्भैर्भ्रातर्यावः पुरः क्वचित् । दैवाय प्रभविष्यावस्तत्रामुष्मै दुरात्मने ॥ १७ ॥ निद्रासुखासिकालो वा गन्तुमुत्सहसे न चेत् । भ्रातस्तदद्य तिष्ठावः सच्छायेऽत्रैव कानने ॥४८॥ इत्यादि प्रलपन्नुच्चावचेन वचसा मुहुः । सीरभृत्तं दिनं तां च यामिनीमत्यवायत् ॥ १९ ॥ प्रगे च वचनैस्तैस्तैरनुतिष्ठन्तमच्युतम् । जीवद्बुध्या निजस्कन्धमध्यारोप्य वलोऽचलत् ॥ ५० ॥ स्कन्धन्यस्तहरिर्बन्धुस्नेहव्यामोहितो हली । भ्राम्यति स्म सरिच्छैलकाननानि दिवानिशम् ॥ ५१ ॥ पुष्पैर्वन्यद्रुमाणां च नित्यमानर्च शार्ङ्गिणम् । एवं रामोऽतिचक्राम पण्मासान्पर्यटन् बने ।। ५२ ॥ प्राप प्रावृडथाशान्तान्नीलयन्ती बलाहकैः । नूतनैरङ्कुरोद्गारैर्मेदिनीमण्डलं पुनः ॥ ५३ ॥ अथ भावमयं शैलादुत्तीर्णं हेलया हली। स्यन्दनं कंचिदद्राक्षीत्समभूभागभङ्गुरम् ॥ ५४ ॥ संजयः सँजजल्पेऽथ सारथिः सीरपाणिना। रथेऽस्मिन्कणशो भग्ने कस्ते मूढ मुधा श्रमः ॥ ५५ ॥ सारथिस्तमथोवाच संगरेषु सहस्रशः॥ निर्व्युढोऽप्यधुना पादप्रहारेणापि यो मृतः ॥ ५६ ॥