पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। कोपाटोपात्ततः सिंहनादमुच्चैश्चकार सः । येनारण्यमृगास्त्रेसुः कम्पते स्म च काश्यपी ॥ ३१ ॥ जगाद च मदाध्मातः पातकी ननु कोऽस्ति भोः । निद्राणमतुलप्राणं योऽवधीन्मम बान्धवम् ॥ ३२ ॥ सुप्तमत्तप्रमत्तेषु बालस्त्रीमुनिगोष्वपि । क्रूरकर्मैकचाण्डालोऽप्यभिज्ञः प्रहरेत कः ॥ ३३ ॥ दोर्दोऽप्यस्ति चेत्कश्चित्तत्स्वमाविःकरोतु सः। भुजोष्मज्वरिणां बाहुः सर्वेषामेष भेषजम् ॥ ३४ ॥ इत्याद्यनेकशः कोपाद्गिमुद्गीर्य लाङ्गली । तारं पूत्कारमुन्मुच्य मूर्छितः क्ष्मातलेऽपतत् ॥ ३५ ॥ क्षणाच्चैतन्यमासाद्य शीतैः कान्तारमारुतैः । रोदयञ्श्वापदान्काममाक्रन्दैर्विललाप सः ॥ ३६ ।। हा विश्वेष्वेकशौण्डीर हा रिपुष्वेकरोषण । हा गुणिष्वेकधौरेय मा गुरुष्वेकवत्सल || ३७ ॥ हा कंसध्वंस घोरांस हा कालानलनीरद । हा निःसन्धजरासन्ध हा रणक्रूरविक्रम ॥ ३८॥ हा लक्ष्मीकेलिपल्यङ्क हा निःशङ्कशिरोमणे । हा यश:कैरवाराम हा रामनयनोत्सव ॥ ३९ ॥ शस्त्राघातैर्द्विषां तैस्तैः श्रमोऽप्यासीन ते पुरा । संप्रत्यङ्घ्रिव्रणादसान्मृत्युः श्रद्धीयतां कथम् ॥ ४०॥ तदुत्तिष्ठ द्रुतं भानुरारोहत्यन्तरम्बरम् । न खल्वत्यातपेऽल्पीयोऽप्यग्रतो गन्तुमीश्वहे ॥ ११ ॥ चरणव्रणपीडाभिर्न चेच्चलितुमीशिषे । तदारोह मम स्कन्धं बन्धो किमसि मोहितः ॥ ४२ ॥ किमिति क्रन्दतोऽप्येवं वितरस्युत्तरं न मे । इमे हि श्रवसी पातुमुत्सके ते वचोऽमृतम् ॥ १३ ॥