पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । श्रीनेमिस्वामिनो ध्यातश्चिरादागमनोत्सवः । नूनं तेनापि विज्ञाय प्रेषितोऽसीह नः कृते ॥ १८ ॥ (युग्मम्) तद्भवानपि नः साक्षात्तस्य मूर्तिर्जगत्पते । संसारसागरादस्मादुद्धरास्मांततः प्रभो ॥ १९ ॥ किंत्वर्थोऽतीन्द्रियज्ञानशेवधीनां भवादृशाम् । न कोऽपि क्षेत्रकालाभ्यां दवीयानप्यगोचरः ॥२०॥ तद्वनेऽभूद्यथा मृत्युः शयालोर्वनमालिनः । जराङ्गजन्मनानेन तथा नः कथिताः स्वयम् ॥ २१ ॥ तत्कृते जलमाहर्तुं गतो भूतो हली तदा। तत्कथां श्रोतुमिच्छामः खामिन्नाख्यातुमर्हसि ॥ २२ ॥ अथेत्यव्याहतज्ञानो व्याजहार मुनीश्वरः । बलः सलिलमादाय केशवान्तिकमाययौ ॥ २३ ॥ जल्पति स्म च तं भ्रातरुत्तिष्ठोत्तिष्ठ सत्वरम् । स्फीतमस्तीदमानीतमम्भः सुरभि शीतलम् ॥ २४ ॥ तत्प्रक्षाल्य क्षणादास्यं कणेहत्य निपीय च । दूरकान्तारसंचारभूतिः श्रान्तिर्विनीयताम् ॥ २५ ॥ अव्याहरति कसारौ सीरभृत्पुनरब्रवीत् । किमु रुष्टोऽस्वरिष्टारे कालक्षेपान्मनागपि ॥ २६ ॥ एष तेऽसांप्रतं रोषः सांप्रतं तु प्रसीद मे । देशे दवीयसि प्राप्तिर्वारिणोऽत्रापराध्यति ॥ २७ ॥ तथाप्यस्मिन्नजल्पाके सीरपाणिरचिन्तयत् । शयानोऽस्ति पथि श्रान्तः शेतां नामैष तन्मनाक् ॥ २८ ॥ इत्यालोच्य स्थितः कृष्णं परितः कृष्णमक्षिकाः । भ्रमन्तीर्वीक्ष्यि संभ्रान्तः सोऽपि निन्येऽवगुण्ठनम् ॥ २९॥ ततोऽपश्यदपेतासु कंसविध्वंसनं हली। शोणितैश्चोल्वणं भल्लित्रणं चरणपल्लवे ॥ ३०॥