पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६९२ काव्यमाला। पञ्चशत्या महामात्यमुनीनां परिवारितम् । धर्मं साक्षादिवोदग्रैस्तपोदानादिभिर्वृतम् ॥ ५॥ रूपस्य तपसोऽप्येकमाश्रयं श्रेयसां निधिम् । अद्राक्षीत्प्रीतिफुल्लाक्षस्तं मुनिं मेदिनीपतिः ॥ ६॥ (चतुर्भिः कलापकम्) भक्तिनिर्भरमानम्य तं ततो मुनिपुङ्गवम् । जराङ्गजन्मना सार्धं न्यविक्षत पतिः क्षितेः ॥ ७ ॥ मुनीन्द्रः सोऽथ पीयूषस्यन्दसोदरया गिरा । वैराग्यैकमयीं धर्मदेशनामुपचक्रमे ॥ ८ ॥ हा धिक्साक्षादसारत्वं संसारस्य विदन्नपि । मद्यान्मद्यपवत्तस्मान्नायं निर्विद्यते जनः ॥ ९ ॥ सुखाद्वैतमयाः कामं येऽप्यनुत्तरनाकिनः । तेषामपि यतो हन्त पर्यन्तविरसाः श्रियः ॥ १० ॥ कर्मस्तोमभुजिष्याणां मनुष्याणां तु का कथा । येषामायुः श्रियः सौख्यं योषिद्भ्रुभङ्गभङ्गुरम् ॥ ११ ॥ संपद्भिदोविलासैश्च येऽप्यहंकारिणोऽधिकम् । तेऽपि ह्यन्यस्य दृश्यन्ते भ्रूलतायत्तवृत्तयः ॥ १२ ॥ येऽपि दोर्विक्रमाकान्तभूचक्राश्चक्रवर्तिनः । जातुचित्तेऽपि वीक्ष्यन्ते हन्त दीनां दशां गताः ॥ १३ ॥ दुःखैकान्तमयं संपत्तारतम्यमयं च तत् । धीराः संत्यज्य संसारमुत्तिष्ठन्ते विमुक्तयः ॥ १४ ॥ इति संवेगिनीं वाचमुच्चार्य विरते मुनौ। पाणिकुङ्मलमामील्य जगाद जगतीपतिः ॥ १५ ॥ भवानेव प्रभो वेद कामं संसारमीदृशम् । गिरः प्रक्रमते वक्तुमीदृशीर्नह्यनीदृशः ॥ १६ ॥ निश्चित्यानुभवैस्तैस्तैर्भवस्थानभिरामताम् । अस्माभिरपि वैराग्यात्प्रविजिषुमानसैः ॥ १७ ॥