पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६९१ एतस्य ज्येष्ठपुत्रेण रागकेसरिणा श्रियः । असारा अपि नः साररूपत्वेन प्रदर्शिताः ॥ ३६२ ॥ नाम्ना द्वेषगजेन्द्रेण सुतेनास्य कनीयसा । बन्धुप्वपि वधारम्भमकार्यं कारिता वयम् ॥ ३६३ ॥ अन्योऽप्येतस्य संतानस्तामवाप सुखश्रियम् । सर्वदाभवदस्माकं कपायविषयादिकः ॥ ३६४ ॥ तस्मादेनं तिरस्कृत्य कुर्मो नेतारमात्मनः । तं चारित्रक्षमाधीशं साक्षीकृत्य जगत्प्रभुम् ।। ३६५ ॥ किंतु न ज्ञायते देशो यं पुनीतेऽधुना प्रभुः । यद्वा जनान्मुमुक्षून्नः स्वयं सोऽनुग्रहीष्यति ॥ ३६६ ॥ साघीयोऽध्यवसायसंततिमयीमारूढवन्तो दृढं निश्रेणि स्पृहणीयवोधपटिमस्पष्टीभवदृष्टयः । तैस्तैरुत्कलिकाशतैः कवचितं चेतो वहन्तस्तदा पन्थानं किल पाण्डवा जिनपतेरालोकयांचक्रिरे ॥ ३६७ ।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रौपदीप्रत्याहरणद्वारकादाहकृष्णावसानवर्णनो नाम सप्तदशः सर्गः ॥१४॥ अष्टादशः सर्गः। अथ नेमिजिनादेशाद्देशनाक्षीरसागरः। धर्मघोषमुनिः पाण्डुमथुरोद्यानमाययौ ॥१॥ समागमं मुनेस्तस्य विदित्वोद्यानपालकात् । सहानुजैरजातारिर्मुदितो वन्दितुं ययौ ॥२॥ अथाध्यासीनमुन्मीलदानन्दाशूदविन्दुभिः । सुरासुरनराधीशमण्डलैर्मण्डितं सदः ॥ ३ ॥ निविष्टममरैः सृष्टे विकचे काञ्चनाम्बुजे । कर्तुं विश्वत्रयीं धर्ममयीमन्यं प्रजापतिम् ॥ ४ ॥