पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। हा तत्राप्यस्य कुत्रेदं मया बाणेन ताडनम् । धिङ् मां हन्त सुखासुप्तभ्रातृहत्यामलीममम् ॥ ३४९ ॥ शोचन्तमिति मामूचे वात्सल्यादुत्सुको हरिः। अलमेभिर्विलापैस्ते भव कार्यकरोऽधुना ॥ ३५० ।। इत ऊर्ध्वं मुहूर्तेन मृत्युर्भावी मम ध्रुवम् । तदिदानीं स्मरिष्यामि श्रीनेमिपदपङ्कजम् ॥ ३५१ ॥ तत्त्वं कौस्तुभमादाय जवेन ब्रज पाण्डवान् । अन्यथा मन्थितावश्यमायातस्त्वां बलो बली ॥ ३५२ ॥ कियन्तमपि पन्थानं यायाः पश्चान्मुखैः पदैः । यथा संकर्षणो रोषान्न स्यादनुपदी तब ॥ ३५३ ॥ मर्माविधमथोद्धृत्य हरेरङ्घ्रितलाच्छरम् । कौस्तुभं च करे कृत्वा धर्मजन्मन्निहागमम् ॥ ३५४ ।। इत्याकये जरासूनोर्मुखाद्द्वारवतीकथाम् । प्रापुः परमसौजन्याः शुचं पञ्चापि पाण्डवाः ।। ३५५ ॥ चित्तवृत्तिकृतावासं सम्यग्दर्शनमन्त्रिणा । यदि श्रावकधर्माभ्यामात्मजाभ्यां च राजितम् ॥ ३५६ ॥ चारित्रराजमासन्नासीनसंतोषसेवकम् । हत्वा शोकं विवेकोऽथ पाण्डवानामदर्शयत् ॥ ३५७ ॥ तत्र वीक्षितमात्रेऽपि तेऽन्वभूवन्परं सुखम् । विदांचक्रुश्च परमं तमेवात्मोपकारिणम् ।। ३५८ ।। अकालं सत्कृतास्तेषामत्यन्तमपकारिणः । प्रत्येकं प्रत्यभाषन्त मोहराजादयस्तदा ।। ३५९ ॥ निर्वेदाख्यः सखाभ्येत्य सद्बोधसहितस्ततः । मोहादीनां पृथक्पार्थान्दोषजातमजिज्ञपत् ॥ ३६० ॥ अथ ते पाण्डुजन्मानश्चेतसोऽन्तरचिन्तयन् । अहितोऽपि हितो नूनं मोहो नः प्रत्यभादयम् ॥ ३६१ ॥