पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६८९ कथंचिद् ज्ञातवृत्तान्तः कृतान्त इव भीषणः । सैन्योदन्वानरौत्सीन्मामच्छदन्तो न्यधादपि ॥३३६॥ (युग्मम्) कुत्राहो रोहिणीसूनो यासि पाण्डवबान्धव । गृहाणायुधमाधेहि पुनरायोधने मनः ॥ ३३७ ।। विमुच्य भोज्यपात्राणि ततः क्ष्वेडायितोद्धतः । स्तम्भेन दलयन्बैरिबलं दृष्टस्त्वयाप्यहम् ॥ ३३८ ।। अथावा विहिताहारौ ततः प्रचलितौ कमात् । उपागावदुरापाम्बु कौशाम्बं नाम काननम् ॥ ३३९ ।। पुंनागपादपस्यास्य छायामायातवानहम् । तृपादितः पयःपानं श्रान्तो राममयाचिपम् ॥ ३४०॥ सोपद्रवे वनेऽमुग्मिकृष्ण मा भूः प्रमद्वरः । आगतो द्रुतमेपोऽहमिति व्याहृत्य मां मुहुः ॥ ३४१॥ विनियुज्य च साहाय्ये ममेह वनदेवताः । इतो जगाम रामोऽथ निर्विलम्बमवेक्षितुम् ।। ३४२ ॥(युग्मम्) अहं तु प्रावृतक्षौमेणाङ्घ्रिमारोप्य जानुनि । अस्वपं श्रमसुप्रापनिद्रोऽत्रैव तरोस्तले ॥ ३४३ ॥ नतो विद्धोऽस्मि कस्माच्चिद्रमात्पादतले त्वया । इयं तव जरासूनो कथिता मूलतः कथा ॥ ३४४ ॥ श्रुत्वा विष्णुमुस्वादेवं द्वारकादाहवैशसम् । इत्यशोचं चिरं दुःखाद्दैवोपालम्भपूर्वकम् ॥ ३४५ ॥ रे दुर्विधेय वैधेय विधे विविधकौतुकाम् । एवंविधां विधायैतामधाक्षीरधुना कथम् ।। ३४६ ।। दग्धौ हन्त हुताशेन हा मातापितरौ मम । मामकीनाः क्व ते नाम वन्धवः स्नेहबन्धुराः ॥ ३४७॥ जितवासवसाम्राज्यं राज्यं हारि हरेः क्व तत् । क चास्येत्थमवस्थानं तले सिकतिले तरोः ॥ ३४८॥