पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८८ काव्यमाला। ततः प्रचलितावावां पाण्डवानां पुरीं प्रति । हस्तिकल्पपुरोद्यानमागमाव श्रमार्दितौ ॥ ३२३ ॥ क्षुत्क्षामं वीक्ष्य मां रामो भोजनानयनेच्छया । वेगात्तस्य पुरस्यान्तः प्रस्थितोऽभिदधे मया ॥ ३२४ ।। अच्छदन्ताभिधानोऽत्र धृतराष्ट्रात्मजो नृपः । स च पाण्डवगृह्येण मया वैरायते भृशम् ॥ ३२५ ॥ अनार्योऽयं किमप्यार्य चेद्वैरोचितमाचरेत् । विदधीथास्ततः क्ष्वेडामापतेयमहं यथा ॥ ३२६ ॥ तत्प्रतिश्रुत्य रामेऽथ पुरीमध्यमुपेयुषि । मम क्षणान्तरे क्ष्वेडा कर्णमूलमुपागमत् ।। ३२७ ॥ ततः क्रोधकरालोऽहमत्युत्तालमधाविषम् । पिहितां च पदाहत्य प्रतोलीमुद्घाटयम् ॥ ३२८ ॥ भिन्दन्तमच्छदन्तस्य चतुरङ्गां वरूथिनीम् । अद्राक्षं कुञ्जरालानस्तम्भपाणिं च सीरिणम् ।। ३२९ ॥ पुरीपरिघमादाय धार्तराष्ट्रमवादिषम् । दुरात्मन्नागमं सोऽहं कौरवान्तकरो हरिः ॥ ३३० ॥ ततः परिघमालोक्य प्रणतो मृत्युकातरः । बद्धाञ्जलिरजल्पन्मां स सुयोधनबान्धवः ॥ ३३१॥ किमाक्रम्य कुरङ्गाणां दुःस्थावस्थोऽपि केसरी। देव स्वसेवकस्यास्य तदागः क्षम्यतामिदम् ॥ ३३२ ॥ तं मुक्त्वाथ प्रसादेन पुनस्तद्वनमागमम् । नानामनोहराहारपाणिना सीरिणा समम् ॥ ३३३ ॥ रामस्तत्र मयाप्रच्छि लब्धं भोज्यमिदं कथम् । आयातोऽसि कथं चास्य दृक्पथे परिपन्थिनः ।। ३३४ ॥ रामेणाख्यायि गोविन्द कन्दुकाद्भोज्यमद्भुतम् । सुवर्णकटकक्रीतमानयन्तमिदं पथि ॥ ३३५॥