पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६८७ इत्याहारपरीहारतत्परैः पितृभिः पुनः । विसृष्टौ वलितग्रीवौ व्रजावः स्म कथंचन ॥ ३१० ॥ तदैव देवापसदस्तानधाक्षीत्क्षणेन सः। तेऽपि त्रिदिवमासेदुर्ध्रुवं तद्यानढौकिताः ।। ३११ ॥ जरासन्धवधाख्यानसदुपाध्याय पश्यति । नाथे त्वय्यप्यसह्मेन दाहं दह्यामहेऽमिना ।। ३१२ ॥ इत्थमुत्थास्नुभिर्दीनैः प्रलापैः पुरवासिनाम् । दीर्णकर्णः सरामोऽहं जीर्णाराममुपागमम् ॥ ३१३ ॥ (युग्मम्) भवन्तीं भस्मसाद्वीक्ष्य द्वारकां रङ्कवत्पुरः। तत्र स्थितं विषण्णात्मा संकर्षणमवादिषम् ॥ ३१ ॥ आर्य पुर्याः क्व सा लक्ष्मीः क्व च दाहो महानयम् । क शौण्डीर्यमवार्यं तत्कचेयं क्लीबता मम ।। ३१५॥ आर्य किंकार्यतामूढः प्रौढापत्पतितस्ततः । किं करोमि क्व गच्छामि राजचक्रे विरोधिनि ।। ३१६ ॥ सीरपाणिरथामाणीत्कृष्ण मा खेदमाकृथाः। प्रभुव्याख्यातश्रौषीः किं न संसारनाटकम् ॥ ३१७ ॥ अत्र कर्मपरीणामः सूत्रधारो निरर्गलः । प्राणिनो नाट्यपात्राणि नानानेपथ्यधारिणः ॥ ३१८॥ स खलूच्छृङ्खलोत्साहः स्वमतार्पितभूमिकः । हर्षशोकादिभिर्भावैरिवार्तेर्नर्तयत्यमून् ॥ ३१९ ॥ भवनाट्ये ततोऽनेन सूत्रधारेण सूत्रिता । संस्था सर्वापि पात्राणां तद्विष्णो मा म खिद्यथाः ॥ ३२०॥ गन्तव्यं पुनरावाभ्यां पाण्डवेयान्तिकेऽधुना। ते स्मरन्त्युपकारं नो नापकारं तु जातुचित् ।। ३२१ ॥ अपकारेऽपि सौजन्यं सुजनो न विमुञ्चति । जहाति दह्यमानोऽपि धनसारो न सौरभम् ॥ ३२२ ॥