पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। महीमग्नो रथः किंचिदस्मत्कृष्टोऽपि नाचलत् । . क्लीबः पित्रोरपि त्राणे व्यषीदं पौरुषे ततः ॥ २९७ ॥ विषादिनं तदानीं मां देवः कश्चिदिवि स्थितः । उच्चैरुवाच भोः कृष्ण कृतं तव परिश्रमैः ॥ २९८ ॥ . यस्मादस्मि स एवाहं द्वीपायनवरः सुरः । उत्पन्नोऽग्निकुमारेषु स्मृत्वा वैरं करोम्यदः ॥ २९९ ॥ किंत्वेकादशवर्षाणि परमोत्कर्षचञ्चना । जनानामप्रमादेन नावकाशो ममाभवत् ।। ३०० ।। तदहो दहनेनैव मन्निदानभुवामुना । असावानेप्यते मृत्यु मातापितॄजनस्तव ॥ ३९१ ॥ यदभावि न तद्भावि भावि चेन्न तदन्यथा । तद्गच्छत पुराख्यातं मास्म विस्मरतं मम ।। ३०२ ॥ इति श्रुत्वापि तद्वाचमाकर्षन्तौ रथं पुनः । भृशमावामभाषन्त पितरः स्नेहकातराः ।। ३०३ ॥ वत्सौ वात्सल्यमस्मासु खोचितं चक्रथुर्युवाम् । अवश्यं भाविनो भावाः किंतु स्युर्महतामपि ॥ ३०४ ।। ततोऽस्तु वां शिवः पन्था विजयेथां चिरं युवाम् । अस्माभिः पुनरत्रैव नेमिः शरणमाश्रितः ॥ ३०५ ॥ यहूद्धं मनसास्माभिर्वचसा यच भाषितम् । कृतं यच्चापि कायेन तन्मे मिथ्यास्तु दुप्कृतम् ॥ ३०६ ॥ क्षमयामोऽखिलान्सर्वान्सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वेषु भूतेषु वैरमस्ति न केनचित् ।। ३०७ ॥ अशनादिकमाहारं प्रत्याख्यामश्चतुर्विधम् । अहंदादींश्च पञ्चापि स्मरामः परमेष्ठिनः ॥ ३०८ ॥ वयं कस्यापि नेदानीमसदीयो न कश्चन । इत्युन्मदिष्णुनिर्वेदमात्मानमनुशास्महे ॥ ३०९ ॥