पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । एवं निश्चित्य पूर्लोकः प्रमादं मदिरादिकम् । निस्तन्द्रः पुनरादरे दुर्लङ्ह्या भवितव्यता ॥ २८४ ॥(युग्मस्) अथोत्पातमहीकम्पनिर्घातोल्कादयोऽभवन् । ग्रहेभ्यो निर्ययौ धूमः कृशानुश्च विवखतः ॥ २८५ ॥ ननृतुश्चित्ररूपाणि जहसुः शालभञ्जिकाः । अकाले राहुणा ग्रासः सूर्याचन्द्रमसोरभूत् ।। २८६ ॥ अकल्याणफलाः स्वप्ना जनैर्ददृशिरे निशि । अनशन्कापि रत्नानि चक्रादीनि ममापि च ॥ २८७ ।। ततः संवर्तको वातः प्रावर्तत समन्ततः । स निचिक्षेप पर्यन्तदूरादुन्मूल्य पादपान् ॥ २८८ ।। अन्तर्धा सप्ततिः षष्टिर्बहिश्च कुलकोटयः । अपिण्ड्यन्त भयानष्टा अप्युपानीय केनचित् ॥ २८९ ॥ मयि पश्यति रामे च वह्निमह्नाय कश्चन । दारुणो दारुपूर्णायां द्वारकायामदीपयत् ॥ २९० ।। अहं शोकान्धकारेण धूमस्तोमेन चाम्बरम् । युगपत्परितः प्राप्तव्यासेन व्यानशेतमाम् ॥ २९१ ॥ अभ्रंलिहाभिार्ज्वालाभिर्धूमोऽथ निरघूयत । मम शोकान्धकारस्तु कामं वृद्धिमनीयत ॥ २९२ ।। अथाहं वसुदेवं च देवकी चाथ रोहिणीम् । आरोप्य रथमाक्रष्टुं प्रवृत्तः सहसारिणा ॥ २९३ ॥ नाश्वैर्न वृषभैः किंचिद्रथं ऋष्टुमशक्यत । आवां युगार्पितस्कन्धौ ततोऽभूव धुरंधरौ ॥ २९४ ॥ अभञ्जि द्वतमक्षाभ्यां सद्योऽभाजि युगेन च । रथः कथंचिदावाभ्यां निन्ये तदपि गोपुरम् ॥ २९५ ॥ अथ क्षणाददीयेतां कपाटौ तत्र केनचित् । रामेणाहिप्रहारेण व्यघट्येतां च बेगतः ॥ २९६ ॥