पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८४ काव्यमाला। मुहुः सिक्तं शमाम्भोभिः फलितं मुक्तिसंपदा । तपोबीजमखण्डं ते क्रोधवह्निर्दहत्ययम् ॥ २७१॥ अज्ञानैर्मद्यपानाद्यैर्डिम्भरूपैर्महामुने अपराद्धमिदं यत्ते तदद्य क्षन्तुमर्हसि ॥ २७२ ॥ अथावादीन्मुनिर्विष्णो पर्याप्तं तव सान्त्वनैः । अधुनैव क्रुधा येन निदानं विदधे मया ॥ २७३ ॥ द्वारकाया यदूनां च क्षयाय स्यामतो हरे । सर्वस्य प्रलयो भावी लोकस्यास्य युवां विना ।। २७४ ॥ पुनः प्रसादनायास्य साभिलाषं विलोक्य माम् । न्यषेधल्लाङ्गली विष्णो कृतमेतस्य सान्त्वनैः ।। २७५ ॥ वक्राङ्घ्रिनासिकाहस्ताः स्थूलोष्ठोदरनासिकाः । हीनाङ्गविषमाक्षाश्च शान्ति यान्ति न जातुचित् ॥ २७६॥ ततः प्रेङ्खन्मनःखेदे मयि हर्म्यमुपेयुषि । द्वैपायननिदानार्थः सर्वोऽपि पुरि पप्रथे ॥२७७ ॥ स्वभावतो ममादेशादुपदेशादपि प्रभोः । बभूव धर्मकर्मैकसज्जो द्वारवतीजनः ॥ २७८ ॥ तदा कृपालुः कालज्ञः समेत्य भगवानपि । पितरौ स्वौ कुमारांश्च प्रद्युम्नादीनदीक्षयत् ॥ २७९ ।। रुक्मिणीप्रमुखाः खामी मदीया महिषीरपि । प्राब्राजयदनेक च द्वारकालोकमाकुलम् ॥ २८०॥ वत्सरे द्वादशेऽवश्यंभाविनं द्वारकाक्षयम् । पृष्टः पुनर्ममादिश्य विजहे प्रभुरन्यतः ॥ २८१ ॥ शश्वच्चतुर्थषष्ठादितपोनिष्ठैकचेतसः । जनस्यैकादशाब्दानि निर्विघ्नं व्यतिचक्रमुः ॥ २८२ ॥ ततश्च द्वादशे वर्षे व्यतीयुषि कियत्यपि । जितोऽस्मत्तपसा नष्टो द्वैपायनमुनिर्ध्रुबम् ॥ २८३ ॥