पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । कृष्णमालोक्य चामूर्च्छमपृच्छं चाप्तचेतनः । कथमेतदभूद्धा ते तदा द्वैपायने वनम् (ने) ।। २५८ ॥ अचीकथत्ततः कृष्णः प्रभुवाक्यादनन्तरम् । पौरैः समुज्झिते मद्ये षण्मासाः प्रययुः सुखम् ॥ २५९ ॥ आयाते मासि वैशाखे कदम्बवनपालकः । सभायामायतिप्रेक्षी मामुपेत्य व्यजिज्ञपत् ॥ २६॥ तत्र त्यक्तं तदा देव द्रुमपुष्पाधिवासितम् । उपागतेन सुखादु मद्यं तत्पीतपूर्विणा ॥ २६१ ।। केनापि सुहृदा साम्बः प्राभृतीकृत्य पायितः । कुमारैः सह दुर्दान्तैZहंस्तद्वनमाययौ ॥ २६२ ।। ते तत्रापानमाबध्य तां सुरां खैरमापपुः । क्षणेन क्षीवतां प्राप्य विलुश्च यदृच्छया ॥ २६३ ।। तत्रैकान्ते तपस्यन्तमन्तकं पापकर्मणाम् । द्वैपायनपरिव्राज ते निध्याय दधुः क्रुधम् ॥ २६ ॥ हन्यतामधुना चायं दुरात्मा मुनिपांसनः । व्यापादितः कथं नाम दग्धुमीशिष्यते पुरीम् ॥ २६५ ॥ इति साम्बगिरा लेष्टुचपेटायष्टिमुष्टिमिः । हत्वा हत्वा मृतप्रायं तं व्यधुर्भवदात्मजाः ॥२६६॥ मृतोऽयमिति मूर्छालं तं त्यक्त्वा गृहमाययुः । मूर्छाविरामे सामर्षे तं च वीक्ष्येहमागमम् ।। २६७ ॥ इत्याख्याय स्थिते तस्मिन्ननर्थों मास्मभूदितः । इत्यागच्छं सरामोऽहं सान्त्वनाय मुनेर्वनम् ॥ २६८ ॥ कोपाटोपकडाराक्षमद्राक्षं तत्र तं मुनिम् । करौ च कुल्मलीकृत्य सप्रश्रयमवादिषम् ॥ २६९ ।। दुस्तपं ते तपः केदं मुने कोपः क चेदृशः । कथमेकत्र संवासस्तेजस्तिमिरयोरयम् ॥ २७०।।