पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६८२ काव्यमाला। मषीश्याममुखो जातु कराग्रेपात्तकौस्तुभः । युधिष्ठिरं जरासूनुरुपतस्थे सदःस्थितम् ॥ २४५ ॥ कृतसमानमासीनं वीक्ष्य हस्तेऽस्य कौस्तुभम् । अदभ्रं संभ्रमं विधत्तं पप्रच्छ तपासुतः ।। २४६ ॥ एतदत्याहितं किं तु भ्रातरावेदय द्रुतम् । प्रभोश्चिरंतनी चाचं स्मरन्नस्मि भियातुरः ॥ २४७॥ सत्यैव स्वामिनो वाणीत्युक्तेऽनेन विषादवान् । पुनः कुन्तीसुतोऽवादीद्यथावृत्तं तदादिश ॥ २१८ ॥ सोऽप्युवाच शृणु भ्रातर्यातोऽरण्यमहं तदा । व्याघवृत्तिश्चिरं स्थित्वा जातु बाणं मृगेऽक्षिपम् ॥ २४९ ॥ अथादित्सुः शरं गच्छन्नहमन्तरितो द्रुमैः । अहो कोऽयमनागस्कं सुखसुप्तमनालपत् ॥ २५० ॥ बाणेनाजितले बाढं निघृणो निजघान माम् । मया तु जातु नाज्ञातनामगोत्रो हतः परः ॥ २५१ ॥ वेगादेष तदाख्यातु नामगोत्रे निजे मम । येनाहमपि नाराचं तं प्रति प्रतिसंदधे ॥ २५२ ॥ श्रुत्वेति कस्यचिद्वाचं धीरोदात्तां महात्मनः । नैणोऽयमिति निश्चिन्वन्खेदमासादयं परम् ॥ २५३ ॥ (चतुर्भिः कलापकम् दशमस्य दशाहस्य सूनुरानकदुन्दुभः । नाम्ना जराकुमारोऽस्मि जरादेव्यास्तनूद्भवः ॥ २५४ ॥ निर्मानुषे वसाम्यत्र बने केनापि हेतुना। कोऽसि त्वं पुनरित्युच्चैर्दूरस्थितमवादिषम् ।। २५५ ॥ ततः सोऽवददेहि ज्यायोमातरह हरिः । स एवास्ति प्रयलस्ते विफलः सकलोऽभवत् ॥ २५६ ॥ तं दृष्ट्वा वाणिजेनेव दत्तं शुल्कमिदं त्वया । इति शृण्वन्वच्चस्तस्य समीपं प्राप साकुलः ॥ २५७ ।।