पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६८१ सदैव समयज्ञानामात्मजानामनुज्ञया । तयोरिष्टमपूरिष्ट समीपेऽरिष्टनेमिनः ॥ २३२ ॥ तावथासादितखामिप्रसादमुदिताशयौ । व्रताचारमधीयानौ समं तेन विजह्रतुः ॥ २३३ ॥ प्रभोः पित्रोश्च विरहे पाण्डवैरुन्मनायितम् । नक्तंदिवं तदादिष्टे धर्मे तु सुमनायितम् ॥ २३४ ॥ . निर्माय तत्र तैश्चैत्यं स्वाम्युक्तं वा व्यनोद्यत । मातापित्रोर्वियोगस्तु क्लमयामास तन्मनः ॥ २३५ ।। कृष्णा विज्ञा विशेषेण शुश्रूषामास तांस्तदा । प्रीतिपानं कलत्रं हि सर्वक्लेशापहं नृणाम् ॥ २३६ ॥ ते पञ्चेषुजिगीषायां विस्फुरत्पौरुषा अपि । ततस्तदेकविषयान्विषयाननुमेनिरे ॥ २३७ ॥ पर्यायेणाथ भुञ्जाना सह तैर्दयितैः सुखम् । गर्भं बभार पाञ्चाली निधानमिव मेदिनी ॥ २३८ ॥ अन्यतेजस्विमाहात्म्यग्रासोज्जागरतेजसम् । प्रातः प्राचीव मार्तण्डं सा क्रमात्सुषुवे सुतम् ॥ २३९ ।। जगदानन्दने तस्मिन्नन्दने धर्मनन्दनः। जाते दानं ददौ किंचिच्छोधयामास चारकान् ॥ २४०॥ नामास्य पाण्डवैः पाण्डुसेन इत्युज्वलौजसः । दीनानाथजनोद्धारपुरःसरमसूत्र्यत ॥ २४१ ॥ पाण्डुसेनोऽथ सेनानीरिव बाल्येऽपि विक्रमी । विज्ञः प्रज्ञावतामग्र्यो जग्राह सकलाः कलाः ॥ २४२॥ जगच्चेतश्चमत्कारिगुणगृह्यैः स पाण्डवैः । अद्भुतप्राभवप्राज्ये यौवराज्ये न्ययुज्यत ॥ २४३ ॥ सर्वतः कुर्वतां तेषां तां तामर्हत्प्रभावनाम् । कल्याणोदर्कराज्यानां ययौ कालः कियानपि ॥ २४ ॥ ६६