पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यदि देव प्रदत्तापत्प्रौढिव्यामूढमानसम् । दिवं यातः कदाप्येत्य खेहान्मां बोधयिष्यसि ॥ २१९ ॥ तथेत्युक्त्वा व्यधात्वार्थ सिद्धार्थस्तदनुज्ञया । चरंश्चारित्रमन्यत्र ययौ च स्वामिना समम् ॥ २२०॥ चिरादवसरं प्राप्य कुन्ती कृष्णमथावदत् । पाण्डवाः क्वासतां वत्स त्वया निर्विषयीकृताः ॥ २२१ ॥ तवैवेयमशेषापि भरतार्धवसुंधरा । तत्प्रसीद स्वबन्धूनां किमपि स्थानमादिश ॥ २२२ ॥ केशवोऽप्यनवीन्नव्यां दक्षिणाम्भोधिरोघसि । निर्माय पाण्डुमथुरां तत्र तिष्ठन्तु पाण्डवाः ॥ २२३ ।। अथैत्य हास्तिनं कुन्ती सुतानां-तदचीकथत् । आगत्य पाण्ड्डविषये तत्तथा तेऽपि चक्रिरे ॥ २२४ ॥ अभिमन्यूत्तरापुत्रं सुभद्रापौत्रमच्युतः । हस्तिनापुरभूपालं परीक्षितमतिष्ठिपत् ॥ २२५ ॥ अथ तां द्वारकावार्तां परावर्तयतां हृदि । पार्थानां पाण्डुमथुराराज्येष्वासीन्न निर्वृतिः ॥ २२६ ॥ ध्यायन्तः सर्ववस्तूनां ते केवलमनित्यताम् । दीनोद्धारदयादीनि धर्मकर्माणि चक्रिरे ॥ २२७ ।। पाण्डः कुन्ती च संसारमसारं दधतौ हृदि । तदा सस्मरतुः कामं भगवन्तौ(न्तं) व्रतार्थिनौ ।। २२८ ॥ नाथोऽपि समवासार्षीत्तत्रैत्य ज्ञाततन्मनाः । भगवांश्च विवस्वांश्च परोपकृतिकर्मठौ ॥ २२९ ।। धर्मजन्माथ सोत्कण्ठं मातापितृपुरःसरः । गत्वानमज्जगन्नाथमाहितोन्माथमापदाम् ॥ २३० ॥ प्रभोः सुधामुचं श्रुत्वा वाचं संविग्नमानसौ । प्रणम्य पाण्डः कुन्ती च परित्रज्यामयाचताम् ॥ २३१ ।।