पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६७९ पाण्डवचरितम् । अस्याः स्फीतश्रियः पुर्याः क्षयो भावी किमन्यतः । ममापि मृत्युरन्यस्मात्किं स्वामिन्निति कथ्यताम् ॥ २०६॥ आमिति प्रभुणा प्रोक्ते करमादिति जगौ हरिः। अथाचख्यौ जिनः पुर्या मुनींपायनात्क्षयः ॥२०७॥ अस्माज्जराकुमाराच्च स्निग्धाद्वन्धोर्वचस्तव । यदुवंशक्षये विद्धि मद्यमाद्यं हि कारणम् ॥ २०८॥ इत्याकर्ण्य विभोर्वाचमाचान्तहृदयो मिया । सर्वपर्षज्जनो जज्ञे वैमनस्यमलीमसः ॥ २०९ ॥ धिगेनं यदसौ पात्रं भावी बन्धुवधैनसाम् । इत्येककालमालोकि तदालोकैरात्मजः ॥ २१० ॥ भ्रातुर्घाताय मा भूवमित्यसौ धन्व सेषुधि । विभ्रद्ययावरण्यानीं द्वारकां च हरिः पुनः॥ २११ ।। तत्रैव यादवलेहात्परिव्राज्य व्रती वसन् । द्वीपायनोऽपि शुश्राव जनेभ्यस्तद्वचः प्रभोः ।। २१२ ॥ ततः षष्ठतपः कुर्वन्ब्रह्मचारी शुचिः शमी। पूर्वाहपातकाद्भीतः कान्तारं सोऽप्यशिश्रियत् ॥ २१३ ॥ पुरीदाहकुलोच्छेदनिदानमथ केशवः । नवीनं सीधुसंधानं प्रत्यषेघज्जनप्रियः ॥ २१४ ॥ प्राक्तनं तु कदम्बाद्रेः कदम्बाह्वे वने हरिः । कादम्बरीगुहाभ्यर्णे मद्यमत्याजयज्जनैः ॥ २१५ ॥ भूरिभूमीरुहाकीर्णे तत्र तैस्त्यक्तया तया । आकर्णान्तमपूर्यन्त शिलाकुण्डानि शुण्डया ॥ २१६ ॥ तदानीं चाभ्यधाइन्धुः सिद्धार्थः सारथिर्बलम् । अनुज्ञातस्त्वया दीक्षां जिघृक्षामि जिनान्तिके ॥.२१७ ॥ बलोऽप्यूचे सहायं त्वां विस्रष्टुं नाहमुत्सहे । एतेन पणबन्धेन विदधे तु तवेप्सितम् ॥ २१८॥