पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६७८ काव्यमाला। सक्रोधमभिधायेति कंसारिर्द्वारकां ययौ । श्यामीभूतमुखाम्भोजाः पाण्डवा अपि हास्तिनम् ॥ १९३ ॥ ते तत्राभ्येत्य ता वार्तां मातापित्रोर्न्यवेदयन् । सुखदुःखैकविश्रामः पितरौ हि तनूरुहाम् ॥ १९४ ॥ अथ पाण्डर्विमृश्यान्तेऽनुरोधविधिवत्स(त)या । द्वारकायां पुरि प्रैषीत्कुन्तीं कंसान्तकान्तिकम् ॥ १९५ ॥ ततः कुन्ती गजारूढा द्वारकोद्यानमीयुषी । प्रभोः समवसरणे वीक्ष्य पञ्चां तदाविशत् ॥ १९६ ॥ नत्वा नाथं निषेदुष्यामेतस्यां देवकी तदा । अप्राक्षीदाययुर्ये ह्यः प्रभो मद्धाम्नि साधवः ।। १९७ ।। अन्योऽन्यमतिसारूप्यादभेदभ्रमकारिणः । मम प्रीतिकराः के ते कथं च सदृशा हरेः ॥ १९८ ॥(युग्मम् आख्याति स्म ततः खामी पुरे भद्रेऽस्ति भद्रिले । सुलसानलसा धर्मे नागस्य श्रेष्ठिनः प्रिया ॥ १९९ ।। तस्यै प्रददिरे भक्तितोषिणा नैगमैषिणा। कृष्णाग्रजाः षडप्येते पुत्रास्त्वत्कुक्षिकौस्तुभाः ॥२०॥ तस्या मृतान्यपत्यानि तस्यार्प्यन्त पुनस्तव । गत्वा तत्र मयाप्येते दीक्षिता मोक्षगामिनः ।। २०१ ।। अतोऽमी सहशा विष्णोस्त्वदृशोरमृताञ्जनम् । आनन्दकन्दलीहेतुरीदृशं ह्यौरसं महः ॥ २०२ ॥ श्रुत्वेति देवकी स्नेहलहरीप्रसुतस्तनी । ववन्दे सह कृष्णाद्यैस्तान्प्रीतिपुलकाङ्कितैः ॥ २०३ ॥ स्वामिनाथ विसृष्टायां देशनायां जनार्दनः । कुन्तीं पितृखसारं खां मुदितः स्वगृहेऽनयत् ॥ २०४ ॥ परेद्यवि समं कुन्त्या पुनरासेदिवान्सदः । स्वां लक्ष्मीं वीक्ष्य तादृक्षामन्वयुक्त प्रभुं हरिः ।। २०५॥