पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६७७ कृष्णोऽथाभ्यागमत्पारेपारावारं यथागतम् । वल्लभालाभकल्लोलिचेतोभिः सह पाण्डवैः ॥ १८० ॥ सुस्थितं लवणाधीशं यावदामन्त्रये क्षणम् । तावन्मन्दाकिनीं यूयमेतामुत्तरताग्रतः ॥ १८१ ॥ इत्यादेशेन कंसारेर्नावमासाद्य कांचन । उत्तरुः पाण्डवा गङ्गां पृथुं द्वाषष्टियोजिनीम् ॥१८२ ॥ (युग्मम्) बलानुजन्मनो बाहुबलं वीक्षिष्यतेऽधुना । इत्यालोच्य न ते नावं प्राहिण्वन्वनमालिने ॥ १८३ ॥ ततः सुस्थितमापृच्छय न्यस्य वामे मुजे रथम् । दोष्णानेन हरिर्गङ्गां तरीतुमुपचक्रमे ।। १८४ ।। कृच्छ्राद्गच्छन्प्रवाहान्तः श्रान्तः शौरिरचिन्तयत् । श्लाघ्यास्ते खलु कौन्तेयास्तीर्णेयं यैः सुरापगा ॥ १८५॥ अथास्मिन्नतिखिन्नेऽन्तर्विचक्रे देवतास्थलम् । मुहूर्तं तत्र विश्रम्य पारेगङ्गं ययौ हरिः ।। १८६ ॥ तत्रापृच्छन्सुतान्पाण्डोः केशवो ननु जाह्नवीम् । भवन्तः कथमुत्तीर्णास्तेऽपि नावेत्यचीकथन् ॥ १८७॥ किं नौर्न प्रेषिता मह्यमित्युक्तेऽथ मुरारिणा । वीक्षितुं तव दोःसारमित्याख्यान्ति स पाण्डवाः ॥ १८८ ॥ ततः कोपारुणीभूतचक्षुर्दामोदरोऽभ्यधात् । कंसकेशिजरासन्धचाणूरादिवधे पुरा ॥ १८९॥ संप्रत्येव जये पद्मनाभस्य च महीभुजः । नेक्षितं मम दोःसारं ददृक्षध्वेऽधुनैव यत् ॥ १९॥ इत्युदीर्य मुरारातिर्लोहदण्डेन कोपतः । स्यन्दनान्पाण्डवेयानां लोष्टचूरमचूरयत् ।। १९१ ॥ (त्रिभिर्विशेषकम्) जगाद च यदि क्षोणीं मदीयामधिवत्स्यथ । सपुत्रबान्धवानीका तदानीं न भविष्यथ ॥ १९२ ॥