पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६७६ काव्यमाला। अत्रायातस्य कृष्णस्य स्वगतं कर्तुमिच्छति । मनो मे कपिलेनेति प्रोक्ते भूयो विभुर्जगौ ॥ १६७ ।। कदापि न भवत्येतद्भविष्यति बभूव वा। संगच्छेते जिनौ चक्रभृतौ शौरी च यन्मिथः ॥ १६८॥ वीक्षिण्यसे तथाप्यस्य त्वं पताकां पताकिनः । इत्याकर्ण्य विभोर्वाचं सोऽनुकृष्णमधावत ॥ १६९ ॥ आससाद क्षणादेवं लवणोदन्वतस्तटम् । अपश्यच्च स कृष्णस्य स्यन्दनप्रतिपद्धतिम् ॥ १७ ॥ पञ्चवर्णरुचीन्संध्यारागैरिव विनिर्मितान् । मध्येजलधि चैक्षिष्ट तदीयरथकेतनान् ॥ १७१ ॥ ततो मदीयमादाय स्वागतं गन्तुमर्हसि । इति व्यकाक्षरं दध्मौ कपिलो बारिजं निजम् ॥ १७२ ॥ खागतं लब्धमस्माभिः प्रणयेनामुना तव । इति विस्पष्टवर्णं स्वं शङ्खं कृष्णोऽप्यपूरयत् ।। १७३ ।। तन्निनादमुपश्रुत्य कपिलोऽथ न्यवर्तत । जगामामरकङ्कां च दत्तातङ्कां मुरारिणा ॥ १७४ ।। कुर्वाणेनैनमन्यायं प्रतापस्य मम त्वया । चक्रे म्लानिरियं दुष्ट तिष्ठ मा तत्पुरो मम ॥ १७५ ॥ इत्युक्त्वा पद्मभूपालं कोपेन निरवासयत् । कपिलः स्थापयामास तत्पदे च तदात्मजम् ॥ १७६ ॥ गच्छन्नन्तःसमुद्रं च रथोत्सङ्गे निषेदुषीम् । प्रेयसीमिति सप्रेम व्याजहार युधिष्ठिरः॥ १७७ ॥ प्रणीतप्रार्थने देवि तसिन्भूपालपांसने । किं विचिन्त्य तदा मासोऽवधित्वेन त्वयार्थितः ॥ १७८ ॥ साभ्यधादेव चेन्मासमध्ये नैष्यन्ति मत्प्रियाः । तदानशनमादाय मरिष्यामीत्यचिन्तयम् ॥ १७९ ॥