पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६७५ सोऽब्रवीदथ पाञ्चाली सतीसीमन्तमौक्तिकम् । कथंचिदीहते नान्यं वचः कुर्वे तथापि ते ।। १५४ ।। इत्युक्त्वा मेऽनुरोधेन मन्दिरोपरिशायिनीम् । दत्त्वा प्रखापिनीं विद्या द्रौपदीं सोऽहरत्सुरः॥ १५५॥ तेनानीयार्पिता मह्यं पाञ्चाली बुबुधे ततः । अपश्यन्ती निजं वेश्म संभ्रमं चामजत्परम् ॥ १५६ ॥ ततोऽहं तां तथाभूतामभ्यधां मा न (नु)सुन्दरि । किंचित्कार्षीर्मनःक्षोभं किं करोमि पुरस्तव ॥ १५८ ॥ द्वीपेऽसिन्धातकीखण्डे जम्बूद्वीपादहारयम् । नृपः पद्माभिधोऽहं त्वां तन्मां मन्यख वल्लभम् ॥ १५८ ॥ ततः किंचिद्विचिन्त्येयमूचे मां चेन्न मामकः । कश्चिदेष्यति मासान्तः करिष्ये ते वचस्तदा ॥ १५९ ॥ सागरान्तरितो जम्बूद्वीपतः क इहैष्यति । इत्यालोच्य मयाप्यस्या वचस्तदुररीकृतम् ॥ १६० ॥ भवन्तो भवनातीतमहिमैकास्पदं पुनः। व्यतीतार्णवमप्येन(त्यू)ष्ठतोऽस्याः समागमन् ॥ १६१॥ इत्याख्याय कथां कृष्णविसृष्टः सोऽविशत्पुरीम् । कृष्णोऽपि च बले कृष्णां कृत्वा कौन्तेयसात्ततः ॥ १२ ॥ तदा च तत्र चम्पायामारामे पूर्णभद्रके । मुनिसुव्रततीर्थेशः समेत्य समवासरत् ॥ १६३ ॥ रणारम्भभवं कृष्णपाञ्चजन्यस्य निखनम् । श्रुत्वापृच्छत्सभासीनस्तं हरिः कपिलाभिधः ॥ १६४ ॥ भगवन्भुवनाभोगभिदारम्भमयंकरः । मत्समानस्य कस्यैष शङ्खनादो विजृम्भितः ॥ १६५ ।। तीर्थकृत्कपिलेनेति पृष्टे विस्पष्टविस्मयम् । पद्मनाभमहीपालकथां सर्वामचीकथत् ॥ १६६ ॥