पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला- इत्याधुदीरयन्दीनं भिया तरलतारकः । पद्मनाभोऽथ पाञ्चालीपादपङ्केरुहेऽपतत् ॥ १४१ ॥ (युग्मम् ) साप्यूचे चेद्वधूवेषमाधायाने विधाय माम् । शार्ङ्गिणं शरणं यासि तदा जीवसि नान्यथा ॥ १४२ ॥ तयेत्युक्तस्तथा चक्रे पद्मनाभो भयातुरः । प्राणत्राणाय नीचा हि नास्ति तद्यन्न कुर्वते ॥ १४३ ।। नृसिंहवपुरुत्सृज्य प्रसन्नस्तं जनार्दनः । मा भैषीरिति संभाष्य पप्रच्छ प्राक्तनीं कथाम् ॥ १४४ ॥ पद्मनाभोऽब्रवीद्देव नारदो मुनिपुंगवः । सहसैव कदाचिन्मामागादन्तःपुरःस्थितम् ॥ १४५ ॥ तथाभ्यर्च्य यथौचित्यमप्रच्छि स मुनिर्मया। यदीदृश्यः कचिदृष्टाः स्त्रियो मत्प्रेयसीसमाः ॥ १४६ ॥ मामथोचे स किं कूपमण्डूक इव भाषसे । पाञ्चाल्याः पुरतो राजन्कीदृश्यस्तव वल्लभाः ॥ १४७ ॥ भूयोऽपि विस्मयस्मेरमानसोऽहं तमभ्यधाम् । पाञ्चाली भगवन्केयं यत्त्वयैवं प्रशस्यते ॥ १४८ ॥ 'अथाह स मुनिर्जम्बूद्वीपभारतभूषणम् । हस्तिनापुरमप्यस्ति पुरं स्वर्गपुरोपमम् ॥ १४९ ।। पाण्डवाश्चण्डदोर्दण्डास्तद्धिन्वन्ति यशोधनाः । आदिकन्दो मुकुन्दोऽभूद्यत्साम्राज्यमहीरुहः ॥ १५०॥ गञ्जा हिरण्यगर्भस्य रूपलावण्यसंपदाम् । पाञ्चाली नाम पञ्चानां तेषामेकैव वल्लभा ॥ १५१ ॥ व्याहृत्येति क्षणादन्तरिक्षमुत्पतिते मुनौ । पाञ्चालीगुणटंकारैरहमुज्जागरस्मरः ॥ १५२ ।। पूर्वसंगतिकं मित्रं देवं भवनवासिनम् । संस्मृत्य प्रार्थयामास कृष्णाहरणहेतवे ।। १५३ ।। (युग्मम्)