पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

> पाण्डवचरितम् । पाण्डवेयास्ततस्तेन तथा बाणैर्बभञ्जिरे । यथा समरमुत्सृज्य मुरारिं शरणं ययुः ॥ १२८ ॥ व्याहरंश्च हरे नैनं विजेतुं वयमीश्महे । त्वमेव नूनमेतस्मै स्थास्यसे समराङ्गणे ॥ १२९॥ ऊचेऽथ सस्मितः शौरिर्द्विषा यूयं जितास्तदा । यदायं वा वयं वाथ जेतारोऽयेत्यवोचत ॥ १३०॥ इदानीं तु विलोकध्वं मदीयं रणकौतुकम् । जेष्याम्येनं रणे जेष्ये नानेन कथमप्यहम् ॥ १३१ ।। इत्युदित्वा मुरारातिरुच्चण्डैर्ध्वनिडम्बरैः । क्षोभितानेकराजन्यं पाञ्चजन्यमपूरयत् ॥ १३२ ।। बलत्रिभागः पद्मस्य तदीयध्वनिनानशत् । पञ्चाहेनासितेनेन्दोर्बिम्बाभोगनिभागवत् ॥ १३३ ॥ शार्ङी शार्ङ्गमथारोप्य कोपादास्फालयद्दृढम् । तन्नादेनापि तत्सैन्यत्रिभागस्तद्वदत्रुटत् ॥ १३४ ॥ प्रणश्याथ पुरीं पद्मः शेषसैन्यावृतोऽविशत् । दृढलोहार्गलाः सर्वाः प्रतोलीश्वाप्यधापयत् ।। १३५॥ उत्तीर्याथ रथाद्विष्णुर्कोमान्तर्व्यापि भैरवम् । व्यात्ताननं हसद्दष्टुं नारसिंह वपुर्व्यधात् ॥ १३६ ॥ अथोन्मर्यादयन्नद्रीन्कम्पयन्काश्यपीमपि । चालयनचलान्विष्णुर्वितेने पादर्दुरान् ॥ १३७ ।। प्राकाराग्राणि तैः पेतुर्दुद्रुवुर्गोपुराणि च । ध्वंसन्ते स च वेश्मानि सस्रंसे चाद्रिमण्डली ॥ १३८ ।। निम्नेषु केऽप्यलीयन्त निपेतुः केऽपि मूर्च्छिताः । आलिलिङ्गुस्तरून्केऽपि जनाः केऽप्यप्सु चाविशन् ॥ १३९॥ क्षम्यतामिदमागो मे देवि दौरात्म्यवेश्मनः । मूर्तकीनाशदेशीयान्मां रक्षास्मादधोक्षजात् ॥ १४० ॥