पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६०२: काव्यमाला। अहं तु त्वत्पुरीबाह्यकानने सह पाण्डवैः । । षड्भिरेव रथैरेत्य स्थितोऽस्मि रणकेलये . ॥ ११५ ॥ दारुकस्येति गां श्रुत्वा पाटयित्वा जवेन तत् । पद्मः सम प्रकोपस्य दूरं चिक्षेप पत्रकम् ।। ११६ ॥ ऊचे च रे मुकुन्दोऽसौ जम्बूद्वीपे भयंकरः। इह तूर्जखिनः कीदृग् ज्ञानी कोऽपि पुरा- मम ॥ ११७ ॥ तद्भजायात एवाहमेषोऽनुपदमेव ते । 'सज्जीकुरु समीकाय तं जवात्सह पाण्डवैः ॥ ११८ ॥ परं यदि रणे नैतान्सर्वानप्येकहेलया। ग्रासीकुर्वे तदा दूत पद्मनाभोऽसि न ध्रुवम् ॥ ११९ ॥ इत्यस्य गिरमागत्य दारुको मुरविद्विषः । आख्याति स्म ततः सोऽपि सपार्थः समवर्मयत् ॥ १२० ॥ पद्मनाभोऽथ ककुभः पूरयन्पृतनोर्मिभिः । नगर्या निरगायोद्धकामः केशवपाण्डवैः ॥ १२१ ॥ पाण्डवान्पुण्डरीकाक्षस्तस्मिन्नभ्यागतेऽभ्यधात् । योत्स्यध्वे यूयमेतेन युध्येऽहं वा विरोधिना ॥ १२२ ।। अथोचुः पाण्डवाः कोऽयमसिन्नपि तवोद्यमः। वडवाहव्यवाहस्य कः संरम्भो हि पल्वले ॥१२३॥ तविष्णो वयमेवैनं योधयिष्यामहे बलात् । अयं वा भवितेदानीं वयं वा जयभाजनम् ॥ १२४ ॥ इत्युदीर्य सुताः पाण्डोरभ्यमित्रीणतां दधुः । तथैवास्थान्मुरारिस्तु संगरालोककौतुकी ॥ १२५ ॥ पद्मनाभपताकिन्या साकं कुन्तीतनूरुहाम् । अथाभूद्भुवनाभोगडामरः समरश्चिरम् ।। १२६ ॥ ततः पराञ्चिते किंचिदनीके पाण्डुजन्ममिः । भूपतिः स्वयमुत्तस्थे भूरिस्थामा महाभटैः ॥ १२७॥