पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६७१ व्याजहार हरिर्भद्र केनचिद्रौपदीकृता । 'तदीया धातकीखण्डे किंवदन्तीव विद्यते ॥ १०२॥ तत्तथा किंचिदाधेहि सा प्रत्याह्रियते यथा । इत्याकर्ण्य हरेर्वाचमुवाच लवणाधिपः ॥ १०३ ॥ सानीकमहितं हत्वा क्षिप्त्वा च मकराकरे । तां देव धातकीखण्डादुपानीय तवार्पये ॥ १० ॥ मम खप्रेष्यदेशस्य यद्यादेशं प्रयच्छसि । स्वयं तु कोऽयमारम्भः कार्येऽमुष्मिन् लघीयसि ॥ १०५॥ (युग्मम्) ततोऽब्रवीन्मुरारातिः सर्वं त्वय्युपपद्यते । किं त्वेवं विहितं कार्यमस्माकमयशस्करम् ॥ १०६॥ ततो नः सरितां नाथमतिक्रम्य यथा रथाः। यान्ति षट्घातकीखण्डे तथा त्वं कर्तुमर्हसि ॥ १०७ ॥ तथैवेति कृते तेन पञ्च पाण्डुतनूरुहाम् । षष्ठश्च स्यन्दनः सौरेरुचेरुलवणार्णवम् ॥ १०८॥ ततस्ते धातकीखण्डे मरकङ्कापुरीं ययुः। बाह्योद्याने च सर्वतुकेलिवेश्मन्यवातरन् ।। १०९ ॥ तत्र कोपभरात्तत्तदनुशिष्य मुरारिणा । दारुकः प्रेषयांचओ पद्मनाभनृपान्तिकम् ॥ ११०॥ तस्यास्थानस्थितस्यैत्य दारुको दारुणाकृतिः । पादपीठपदाक्रम्य ददौ कुन्तेन पत्रकम् ॥ १११ ॥ अवादीच्च मदाचान्तखान्तभूपालपांसनः । ब्रूते त्वां मुरजिज्जम्बूद्वीपस्य भरतार्धभुक् ॥ ११२ ॥ रे त्वया पाण्डवेयानां महन्धूनां प्रियां पुरा । द्रौपदीं हरता किं न चिन्तितं मे भुजोर्जितम् ॥ ११३ ॥ तत्तवाद्य ध्रुवं दैवमभवत्प्रातिलोमिकम् । दोर्मदस्तव यद्यस्ति कोऽपि तत्संमुखीभव ॥ ११ ॥