पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६७० काव्यमाला। प्रातरालोक्य पल्यङ्कं पाञ्चालीशून्यमात्मनः । संभ्रान्तो भूपतिः साकं सर्वैरप्यनुजन्मभिः ॥ ८९ ॥ आप्तैर्गवेषयामास वल्लभां तामितस्ततः। न पुनः क्वचिदद्राक्षुर्भूतले तेऽखिलेऽपि ताम् ॥ ९०॥ ततस्तत्कालमुन्मीलदुःखसंभारनिर्भराः । पाण्डवाः प्रेषयन्ति स्म कुन्तीं कंसद्विषोऽन्तिकम् ॥ ११ ॥ गत्वा च द्वारकां कुन्त्या तत्रोदन्ते निवेदिते । कंचित्कालं हरिस्तस्थौ किंकर्तव्यविमूढधीः॥ ९२ ॥ नारदोऽन्येद्युरायातः सत्कृत्य मुरविद्विषा । पृष्टः प्रवृत्तिमित्याख्यत्पाञ्चालतनुजन्मनः॥ ९३ ।। द्वीपेऽस्ति धातकीखण्डेऽपरकङ्केति पूर्वरा । तत्पतिः पद्मनाभोऽस्ति वासपद्म इव श्रियः ॥ ९४ ॥ तदीयसदने सौरे पाञ्चालीसदृशाकृतिम् । मृगाक्षीं कांचिदद्राक्षमित्याख्यायोत्पपात सः ॥ ९५॥ नूनं कर्मेदमस्यैव सापि द्रुपदभूर्ध्रुवम् । इति निश्चित्य कंसारिः पितृष्वस्त्रे न्यवदेयत् ॥ ९६ ॥ संदिदेश तथा पाण्डसूनुभ्यश्च यथा जवात् । युष्माभिरभ्युपेतव्यं तीरे प्राग्लवणोदधेः ॥ ९७ ॥ इत्युदीर्य विसृष्टेयं विष्णुना हास्तिनं ययौ । समस्तं पाण्डवेभ्यश्च तं वृत्तान्तमचीकथत् (8) ॥ ९८॥ तेऽथ प्रियावियोगार्ताः पौरस्त्योदधिरोधसि । प्राग्गृहीतनिवासेन संगच्छन्ते म शौरिणा ॥ ९९ ॥ अथ सुस्थितमाराद्धमधीशं लवणोदधेः । प्रयतात्मा तपोऽकार्षीदरिष्टारातिरष्टमम् ॥ १०॥ ततोऽभ्येत्याभ्यधाद्विष्णुं सुस्थितो रचिताञ्जलिः । कर्तव्याय मुरारे मां किं कुर्वाणमथादिश ॥ १०१॥