पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यावत्संसारतापव्यतिकरभिदुरा वाग् जिनानां मुनीन्द्र- प्रज्ञाकान्तावगाढा विधुरयति सुधादीर्घिकादर्पमुद्राम् । तावन्निर्निद्रकार्तस्वरकमलकलां पुष्पदश्रान्तमस्यां विश्वं विद्वद्विरेफार्पितमहिममहाकाव्यमेतद्धिनोतु ॥ २८१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरित महाकाव्ये बलदेवस्वर्गगमन श्रीनेमिनाथपाण्डवनिर्वाणवर्णनो नामाष्टादशः सर्गः ॥ समाप्तश्चायं ग्रन्थः।