पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला।

यमुनातीरवास्तव्यैर्वीतविघ्नैस्तपस्विभिः ।
स यथार्थाभिराशीभिर्रभ्यनन्द्यत भूरिशः॥ ३५३ ॥
तेन नव्यावदातेन सानन्दैर्नन्दनन्दनः ।
घोषादागत्य वेगेन गोपालैः पर्यवार्यत ॥ ३५४ ॥
गायद्भिः कृष्णगीतानि वादयद्भिश्च शृङ्गिकाः ।
तैः समं रामगोविन्दौ चेलतुर्मथुरां प्रति ॥ ३५५ ॥
विस्मयोत्फुल्लनयनैर्वीक्ष्यमाणः पुरीजनैः ।
मथुरागोपुरं गोपैरुपेतः प्राप केशवः ॥ ३५६ ।।
अतुल्ययोः प्रतोल्यन्तर्विशतो रामकृष्णयोः ।
कंसादिष्टमहामात्रप्रयुक्तौ मदविह्वलौ ।। ३५७ ।।
पद्मोत्तरो हरिं हन्तुं चम्पकश्च हलायुधम् ।
उद्धरौ सिन्धुरौ प्रेतपतिप्रायावधावताम् ॥ ३५८ ॥
लीलायितशतैस्तैस्तैः पद्मोत्तरमनुत्तरैः ।
कुशलो गजशिक्षासु खेलयामास केशवः ॥ ३५९ ॥
उत्खाय दन्तमुशले सलीलं तस्य दन्तिनः।
निष्ठुरैर्मुष्टिभिर्विष्णुर्ददौ कीनाशदासताम् ॥ ३६० ॥
कण्ठीरव इवोत्प्लुत्य भित्त्वा कुम्भस्थलं बलात् ।
हन्ति स्म रौहिणेयोऽपि निष्कम्पश्चम्पकद्विपम् ॥ ३६१ ॥
विपुलं वालुकाकीर्ण विकीर्णकुसुमोत्करम् ।
सश्रीकमुत्पताक तौ जग्मतुमल्लमण्डपम् ॥ ३६२ ॥
रङ्गं विशति गोविन्दे निवृत्तविषयान्तराः।
लोकस्य विस्मयस्मेरा निपेतुर्युगपद्दृशः ॥ ३६३ ।।
स एष कोशिकीनाशः स एष वृषमर्दनः ।
नन्दस्य नन्दनः सोऽयं सोऽयं सर्पस्य दर्पहा ।। ३६४ ॥
गोपालतिलकः सोऽयं सोऽयं सिन्धुरघातकः ।
श्लाघ्यमानो जनैरेवमस्दर्श्यत परस्परम् ॥ ३६५ ॥