पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् । ७३

ततः कंसस्य वृत्तान्तं व्याजहार हरेर्बलः ।
कर्षकेणेव सद्बीजं गुप्तं काले फलेद्वचः ।। ३४०॥
अथ बन्धुवधोह्रद्धरोषोऽरिष्टारिरभ्यधात् ।
सर्वे मे सिद्धगन्धर्वाः प्रतिज्ञां शृणुत क्षणम् ॥ ३४१ ॥
सर्वेषां पश्यतां राज्ञां पाप कंसं न हन्मि चेत् ।
ध्रुवं तदाहं गृह्येयं तदीयभ्रूणहत्यया ॥ ३४२ ॥
रोहिण्यङ्गरुहो रोहत्पुलकाङ्कुरदन्तुरः ।
ततो भ्रातरमालिङ्गय निजगाद प्रमोदतः ।। ३४३ ॥
साधु वत्स त्वमात्मीयकुलस्य तिलकायितम् ।
भूभृदाक्रमणोर्जस्वी तेजो यस्य रवेरिव ॥ ३४४ ॥
तदिदानीमिह स्नात्वा व्रजावो मथुरां प्रति ।
इत्युदीर्य बलः कृष्णं निनाय यमुनाजले ॥३४५ ॥
तत्र दृष्टिविषः कालः कालियो नाम पन्नगः ।
तीरवासी जले क्रीडन्कृष्णं दष्टुमधावत ॥ ३४६॥
निःशूकं दन्दशूकं तं लोकः स्फारस्फटोत्कटम् ।
हरिं च बालमालोक्य हाहाकारपरोऽभवत् ॥ ३४७ ॥
सोऽतिभीष्मो विषोल्काभिर्यावद्दशति केशवम् ।
असौ तमग्रहीतावल्लीलया जलकन्दले ॥३४८॥
लीलाकमलनालेन नस्तयित्वा(?) जनार्दनः ।
आरुह्य वाहयामास तमहि जात्यवाजिवत् ॥ ३४९ ॥
दुर्दमं दम्यमानं तं पन्नगं वीक्ष्य विस्मिताः ।
तस्थुर्धृत्वा विमानानि नभोभागे नभश्चराः ॥ ३५० ॥
कृष्णेन दृढमूरुभ्यामाक्रम्य दमितस्तथा ।
स यथा सर्वथा जज्ञे निर्विषो मरणावधि ॥ ३५१ ॥
प्रमीतप्रायमालोक्य लोकोत्तरकृपापरः ।
दूरादुत्सृज्य तं विष्णुः स्नात्वा तीरमुपागमत् ॥ ३५२ ॥


'नाशयित्वा' इति भवेत्; 'नष्टयित्वा' इति वा नासधातुकल्पनेन भवितुमर्हति. .