पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला।

मथुरां गन्तुमिच्छावस्ततो नौ स्नपय द्रुतम् ।
सा प्रत्यूचे न युवयोः स्वपनावसरो मम ॥ ३२७ ॥
क्रोधारुणाक्षः साक्षेपं बलस्तां प्रत्यभाषत ।
अरे दासि न जानासि स्वात्मानमतिर्गर्विता ॥ ३२८ ॥
तामित्युक्त्वा करे धृत्वा कृष्णं कृष्णमुखं रुषा ।
स्नानाद्यह्नाय कालिन्दी कालिन्दीकर्षणो ययौ ॥ ३२९ ॥
उपनीरं स वानीरतले विष्णुमभाषत ।
वत्स विच्छायवदनः किमिदानीं विलोक्यसे ॥ ३३० ॥
हरिः प्रत्याह दासीति किमात्थ मम मातरम् ।
मातुर्यकारमाकर्ण्य सकर्णो हि क्षमेत कः ॥ ३३१ ॥
रोहिणीतनयः कृष्णं मूर्ध्नि चुम्बन्नवोचत ।
यशोदा नैव ते माता न च नन्दः पिता तव ॥ ३३२ ॥
देवकाङ्गभवा देवी देवकी जननी तव ।
स्तन्यं या तुभ्यमभ्येत्य ददाति स्मान्तरान्तरा ॥ ३३३ ॥
पिता च वसुदेवो नौ सुभगः खेचरार्चितः ।
कुशााधिपतिर्यस्य समुद्रविजयोऽग्रजः ॥ ३३४ ॥
ममार्य किमु सोदर्य इत्युक्तो विष्णुना बलः ।
अवदद्वत्स बन्धुस्ते वैमात्रेयोऽस्ति केवलम् ॥ ३३५ ॥
उद्दामबहुधामानो यादवा ज्ञातयस्तव ।
भरतार्धपतिस्त्वं च ज्ञानिभिः कथितोऽसि नः ॥ ३३६ ॥
ईदृशि त्यादृशां जन्म न गोपालकुले भवेत् ।
मरुस्थले हि कल्पद्रुरात्मलाभं लभेत किम् ॥ ३३७ ॥
देवकीवसुदेवाभ्यां वत्सवात्सल्यतः परात् ।
पितृभ्यां गोत्रसर्वस्वं गोपितोऽसि भयादिह ॥ ३३८॥
कृष्णः पप्रच्छ संभ्रान्तः कुतो भयममूदृशाम् ।
येन क्षिप्तोऽस्मि पित्रास्मिन्गोकुले गोपसंकुले ॥ ३३९ ॥