पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६८ काव्यमाला। तत्पर्यन्तेषु सच्छायं विषयद्रुमकाननम् । अशेषजगदाकर्षि तत्किमप्यस्ति दुस्तपम् ।। ६३ ॥ मूढबुद्धिर्यदासाद्य सर्वेन्द्रियमनोरमम् । मुक्तिपू:पंथपान्थोऽपि न पुरो गन्तुमीहते ॥ ६४ ॥ विकखरतरं तत्र कामिनीनलिनीवनम् । यत्पुनर्वर्तते तस्य किं नाम ब्रूमहे वयम् ॥ ६५ ॥ ये तु कामादयस्तत्र खेलन्ति जलपत्रिणः । ते हरन्ति झगित्येव कस्य नाम न मानसम् ॥ ६६ ॥ ततोऽस्मिन्सरसि स्नात्वा निपीय च भृशं पयः । मूढास्ताविषयाख्यान्ये श्रयन्ते तीरभूरुहः ॥ ६७ ॥ तेष्वसाध्यतमः सर्वमात्रिकैर्निरवग्रहः । प्रेमनामा महाभूतस्तानाविशति तत्क्षणात् ।। ६८॥ तेनाविष्टास्ततस्तेऽमी विमुञ्चन्ति त्रपाङ्कुशम् । विद्विषन्ति हितेभ्योऽपि गुरूनायवमन्वते ॥ ६९ ॥ असंबद्धानि जल्पन्ति दीनतां परिचिन्वते । तस्यामटव्यां सर्वस्यां भ्रमन्ति च निरन्तरम् ॥ ७० ॥ भ्राम्यतां च सदा तेन कषायपरिमोषिणः । हरन्ति धर्मसर्वस्वं निःशङ्क प्रहरन्ति च ॥ ७१ ॥ रागकेसरिणा द्वेषकरिणा च पदे पदे। कदर्थ्यन्ते तदा किंचिद्यथा वाचामगोचरम् ॥ ७२ ।। एवमस्यां महाटव्यां संचरन्तो निरङ्कुशम् । सा काचिदापन्नास्त्येव यां लभन्ते न तेऽङ्गिनः ॥ ७३ ॥ ततः संत्यज्य दूरेण तन्मिथ्यात्वमहासरः । तत्सदागमकूपस्य पयः पिबत हे जनाः ॥ ७४ ।। येन गच्छत निर्बाधसौख्यसंभारभासुरम् । शश्वदुज्जागरज्योतिर्मयीं शिवपुरीं जवात् ॥ ७५ ॥