पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६६७ भवारण्यभ्रमिक्लान्तविश्वविश्रामपादपाः । सन्तु मे भवतः पादाः कल्याणफलदायिनः ।। ५० ॥ इत्यभिष्टुत्य साष्टाङ्गमानन्दाश्रुकणान्किरन् । श्रीमन्नेमिजिनाधीशं नमति स युधिष्ठिरः ।। ५१ ।। कदम्बमुकुलस्थूलरोमाञ्चकलितस्ततः । पितृबन्धुजनैः सार्धं सोऽनुशक्रमुपाविशत् ॥ ५२ ॥ अहो किमप्यपारेयं संसाराच्या महाटवी । अनन्तेनापि कालेन लङ्घन्ते यां न जन्तवः ।। ५३ ।। अथ संसारसंतापनवकादम्बिनीं विभुः । आरेभे त्रिजगहत्तशर्मणां धर्मदेशनाम् ॥ ५४ ॥ पूर्णायामपसिद्धान्तक्षारनीरैरनेकशः। एक एव सुधाकूपस्तस्वामस्ति यदागमः ॥ ५५ ॥ कथंचन कणेहत्य तसिन्पिबति यः पयः । स एव यदि नामास्याः पारे शिवपुरं ब्रजेत् ॥ ५६ ॥ स तु सम्यक्त्वसंज्ञस्य गिरेरतिदवीयसः । वर्तते कापि दुष्पापे गहरे वासनाहये ॥ ५७ ॥ प्रमादालस्यमान्द्यादिवल्लिव्यूहतिरोहितः । वीक्ष्यते न महाकूपो भन्दभाग्यैः कदाप्यसौ ॥ ५८ ॥ केचिदाप्तोपदेशेन प्राप्य तं पुण्यशालिनः । तदीयरसमाकण्ठं खादयन्ति सुधोपमम् ॥ ५९ ॥ तन्निर्गतेन सद्याननाम्ना सरलवर्त्मना । कालेनाल्पीयसा मुक्तिपुरीमासादयन्ति ते ॥ ६॥ किं चाज्ञानादिवृत्तान्तं तत्राटव्यां विसंकटम् । अतिनेदीय एवाति मिथ्यात्वाख्यं महासरः ।। ६१ ॥ ककुप्कूलंकषैस्तैस्तैरज्ञानसलिलोर्मिभिः । ह्रियन्ते सर्वदा तेन केषां नाम न दृष्टयः ।। ६२ ।।