पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६६ काव्यमाला। जय दुस्तरसंसारप्रान्तरप्रान्तपादप । जयान्तरतमःस्तोमनिस्तक्षणनभोमणे ॥ ३७ ।। समस्तत्रिजगत्संपत्संपादनपटीयसी। नृणां त्वच्चरणाम्भोजभक्तिः कल्पलतायते ॥ ३८॥ त्वत्पादपादपच्छायां क्लान्तिच्छिदमुपेयुषाम् । आधिव्याधिमवस्तापः प्रलयं याति जन्मिनाम् ॥ ३९ ॥ भवदावानलज्वालाप्रतप्तस्य मम प्रभो। भवन्मूर्तिः सुधावर्तिर्दिष्ट्या दृष्टिपथं गता ॥ १०॥ त्वन्नाममन्त्रमश्रान्तं स्मरेयुर्जन्मिनो यदि । संभोगः संपदां सद्यः स्वादुः प्रादुर्भवेत्ततः ॥ ११ ॥ त्वत्पदाम्भोरुहद्वन्द्वसेवाहेवाकशालिनीम् । जगन्नाथ मनोवृत्तिं नित्यमीहे निजामहम् ॥ १२ ॥ वन्मूर्तिर्यदि जागर्ति रोगार्तिहरणक्षमा । मम चित्ते जगन्नाथ प्रार्थये किमतः परम् ॥ ४३ ॥ कार्यं मे प्रभुभिर्लब्धे त्वयि नेतरि नेतरैः । कल्पाङ्घ्रिपं परित्यज्य कः करीरं समाश्रयेत् ॥ ४४ ॥ तव क्रमरजोराजिर्येषां भालमभूषयत् । नरेन्द्राहीन्द्रदेवेन्द्रश्रियस्तेषां वशंवदाः ॥ ४५ ॥ एवं नाम निरीहत्वमुरीचक्रे त्वया विभो । यद्धा पराञ्चितं चेतः शिवानुत्सरणेऽपि ते ॥ १६ ॥ युक्तं यन्नाभवत्किंचित्समुद्रविजयोऽपि ते । गाम्भीर्यमुन्नतत्वं च यस्य विश्वातिवर्तिनी ॥ १७ ॥ खामिन् राजीमतीत्यागाज्ज्ञात्वापि स्त्रीपराङ्मुखम् । यत्त्वां काङ्क्षति मोक्षश्रीस्तत्ते सौभाग्यसौरभम् ॥ १८ ॥ यद्वाहं तव को नाम सामस्त्येन गुणस्तुतौ । विश्वातिक्रान्त एवासि ब्रवीमि किमतः परम् ॥ १९॥