पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । ६६५ पदानि नवसु न्यस्यन्सुवर्णजलजन्मसु । एत्याप्रदक्षिणीकृत्य चैत्रधात्रीरुहं च तम् ॥ २४ ॥ तीर्थाय नम इत्युच्चैरुच्चार्य भुवनप्रभुः । तस्मिन्सिंहासने दिव्ये श्रीमान्नेभिरुपाविशत् ॥ २५॥ (युग्मम्) मार्तण्डमण्डलज्योतिस्तिरस्कारोद्यतद्युति । अनुमौलि क्षणादाविरासीद्भामण्डलं विभोः ॥ २६ ॥ अन्तर्नगरमभ्येत्य झगित्युद्यानपालकः । प्रभोरागमनं धर्मसूनवेऽथ व्यजिज्ञपत् ॥ २७ ॥ तस्मै च सपदि प्रीतमानसस्तपसः सुतः । द्वादशार्धयुता लक्षाः कलधौतस्य दत्तवान् ॥२८॥ गजस्थैरथ भीमाद्यैर्वान्धवैः परिवारितः। सेवामिलितसामन्तबलजातेरलंकृतः ॥ २९॥ सैन्धवोद्धूतधूलीमिर्ध्यामलीकृतभास्करः । प्रेङ्खद्भिः करिसिन्दूरैर्दत्तसंध्याभ्रविभ्रमः ॥ ३० ॥ पितृवर्गं पुरस्कृत्य दिव्यमारुह्य कुञ्जरम् । नमस्कर्तुं जगन्नाथं तत्कालमचलन्नृपः ॥३१॥ त्रिभिर्विशेषकम् । आनकामन्त्रितैः पौरलोकैरालोकितो मुदा । स्वामिनो देशनावेश्म मेदिनीपतिरासदत् ॥ ३२ ॥ चामरादीनि संत्यज्य राज्यचिह्नानि दूरतः । विस्मयस्मेरितस्तस्मिन्नाविवेश विशांपतिः ॥ ३३ ॥ सुरासुरनरव्रातचातकश्रेणिसेवितम् । निःशेषमुपकुर्वाणं भुवनं देशनाभृतैः ॥ ३४ ॥ भवधर्मर्तुसंतापनिर्वापणसुधाम्बुदम् । पश्यति स्म तपःसूनुः स्वामिनं मुदितं पुरः ।। ३५ ॥ त्रिश्च प्रदक्षिणीकृत्य प्रीतिपर्यश्रुलोचनः । मीलिताञ्जलिरारेभे स्तोतुमेवं महीपतिः ॥ ३६॥ ८४