पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६६४ काव्यमाला। क्षिपन्तः कर्मणा बन्धमात्मनो व्यन्तरामराः। बबन्धुरखिलं रत्नशिलाभिस्तन्महीतलम् ॥ ११ ॥ तसिंश्चतुर्दिशं रत्नद्युतिविद्योतिताम्बराम् । ते चतुस्तोरणीं चक्रुर्ध्वजच्छत्रैरलंकृताम् ॥ १२ ॥ प्रांशुज्योतिःशिखाकीर्णं कपिशीर्षककैतवात् । तस्मिन्नभ्यन्तरे रत्नवप्रं वैमानिका व्यधुः ॥ १३ ॥ मध्यमं मधुरं नानामाणिक्यकपिशीर्षकैः। . प्राकारं ज्योतिषामाशास्तन्वते स हिरण्मयम् ॥ १४ ॥ पिण्डिताभिरिव ज्योत्स्नावीचिभिः परिनिर्मितम् । कालधौतं बहि:शालं वितेनुर्भुवनाधिपाः ॥ १५॥ माणिक्यशालभञ्जीभिर्भूषिताभिः समन्ततः । चत्वारि गोपुराण्यासन्प्रतिप्राकारमुच्चकैः ॥ १६ ॥ बहिर्वप्रचतुर्द्वाराः पुरस्ताद्विकचाम्बुजाः । चतस्रो दीर्घिकाः काम्या विचक्रुर्व्यन्तरामराः ॥ १७ ॥ मध्यवप्रान्तरे पूर्वोत्तरस्यां दिशि सुन्दरम् । देवच्छेदं वितेनुस्ते विश्रामाय जिनेशितुः ॥१८॥ मध्ये माणिक्यवप्रं ते चैत्यद्रुमविराजितम् । रत्नसिंहासनं रत्नपीठे प्राङ्मुखमादधुः ॥ १९ ॥ त एव स्वामिनो विश्वत्रयसाम्राज्यबन्दिनीम् । तस्योपरिष्टादातेनुरातपत्रत्रयीं सिताम् ॥२०॥ समण्डलमिवायातं रविमात्मपुपूषया । तत्पुरस्ताद्विचक्रुस्ते धर्मचक्रमधिद्युति ।। २१ ।। जगदद्वैततां नेतुराख्यातुमिव सर्वतः । ते माणिक्यमयं तस्य पुरो धर्मध्वजं व्यधुः ।। २२ ॥ देशनोर्व्यां ततस्तस्यामधोनिक्षिप्तबन्धनाम् । पुष्पवृष्टिं किरन्ति स्म जानुदघ्नीं दिवौकसः ॥ २३ ॥