पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पाण्डवचरितम् । 4 अथ कथमपि तेऽपि प्रीतिमापुच्छ्य कृष्णं त्रिभुवनगुरुवाचां सौरभं भावयन्तः । त्वरिततरमवापुश्चारुक्लृप्तोपचारां मुदितमुदितपौराः स्वां पुरीं पाण्डवेयाः ॥ ३५१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये श्रीनेमिवि- वाहोपक्रमवतकेवलज्ञानवर्णनो नाम षोडशः सर्गः॥ १६ ॥ सप्तदशः सर्गः हस्तिनापुरसाम्राज्यसरोजवनखेलिनः । दिनानि चिन्युर्भूयांसि राजहंसाः पृथासुताः ॥ १ ॥ सम्यगाराधितन्यायचिन्तारत्नोपनीतयोः। नैवार्थकामयोरर्थे प्रयत्नस्तैर्व्यधीयत ॥२॥ धर्मेषु बहुधा कल्पपादपादिव जित्वरे । ते स्मरन्तः प्रभोर्वाचमयतन्त निरन्तरम् ॥ ३ ॥ तथा नित्यं नयाम्भोमिस्तेऽसिञ्चन्धर्मशाखिनम् । यथैतदभवत्सर्वं सच्छायमवनीतलम् ॥ ४॥ ते तैस्तैर्विधिमिर्धर्मशालिक्षेत्रमवर्धयन् । कामार्थाभ्यां पुनस्तस्मिन्नन्तस्तामरसायितम् ॥ ५॥ अन्वहं च विचिन्वन्तो नव्या नव्याः प्रभावनाः । सर्वतोऽथार्हतं धर्ममेकच्छत्रमसूत्रयन् ॥ ६॥ समीहांचक्रिरे ते च जगदानन्दिनः प्रभोः। नेमेरागमनं प्रीताः पयोदस्येव केकिनः ॥ ७॥ विज्ञाय तन्मनोवृत्तिमन्येऽद्युर्भगवानपि । क्रमेण विहरन्सर्वामुर्वींं तत्पुरमागमत् ॥ ४॥ बाह्योद्यानभुवं वायुकुमाराः प्रीतचेतसः। तदानीमात्मना सार्धमसृजन्नेकयोजनम् ॥ ९ ॥ पुण्यानि पुण्यबीजानि वक्तुकामा इवात्मनि । तां मुदा सिषिचुर्मेधकुमारा गन्धवारिमिः ॥१०॥