पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/५६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अथ तं दीक्षयामास करुणाम्भोनिधिः प्रभुः । अनुप्रबजितास्तं च द्वे सहस्रे नरेश्वराः ॥ ३३८ ॥ वरदत्तादिकास्तेषु महोत्सवपुरःसरम् । अस्थापयत्प्रभुः प्राज्ञानेकादश गणेश्वरान् ॥ ३३९ ॥ जिनेन्द्रत्रिपदीं श्रुत्वा ध्रौव्योत्पादव्ययात्मिकाम् । तेऽतिप्रसृमरप्रज्ञा द्वादशाङ्गान्यसूत्रयन् ॥ ३४०॥ भूरिकन्यान्वितां राजपुत्रीं प्रव्राज्य यक्षिणीम् । व्यघत्त विधिवद्धर्मचक्रवर्ती प्रवर्तिनीम् ।। ३४१ ।। स्वाम्येकदत्तनयनां ब्रतबद्धमनोरथाम् । वीक्ष्य राजीमतीं दक्षः प्रभुः पप्रच्छ केशवः ।। ३४२ ॥ प्रभो प्रीतिरतिस्फीता कस्य जागर्ति न त्वयि । राजीमत्यास्तु काप्येषा किंतु वाङ्मनसातिगा ॥ ३४३ ॥ आत्मन्यनन्यसामान्यं राजीमत्यास्ततोऽखिलम् । भवाष्टकभवं प्रेम व्याजहार जिनेश्वरः ।। ३४४॥ तस्याः प्रमुर्ददद्दीक्षामकरोत्प्रेम निष्क्रयम् । महात्मखनुरागोऽपि भवत्येव शुभायतिः ॥ ३४५ ॥ दशार्हैरुग्रसेनाद्यैर्नरेशैः केशवेन च । प्रद्युम्नाद्यैः कुमारैश्च श्राद्धधर्मोऽभ्यपद्यत ।। ३४६ ॥ रोहिणीदेवकीमामारुक्मिणीप्रमुखाः स्त्रियः । श्रावकत्वं विवेकिन्यः प्रभोः पार्श्वे प्रपेदिरे ॥ ३४७ ।। एवं सभायामाद्यायां सङ्घः श्लाघ्यः प्रभोरभूत् । चतुर्विधश्चतसृणां प्रतिरोधक्षमो दिशाम् ॥ ३४८ ॥ नत्वा नाथं जगामाथ दिवं दिविषदां पतिः। हरिश्च पाण्डवैः सार्घं सबन्धुं द्वारकां पुरीम् ॥ ३४९ ॥ प्रावृषं शरदं चापि व्यतीत्य भगवानपि । भव्याब्जखण्डमार्तण्डो विजहार वसुंधराम् ।। ३५० ।।